________________
ललितविस्तरासंस्कृतटीका
१२५ नुसारिबुद्धिमत्सु पुरुषेषु, शब्दवचननिरपेक्षार्थ ज्ञानक्रियास्वरूप-वचनसाध्यसामायिकादि-अर्थस्वीकाररूपवचनार्थ-प्रतिपत्तिः प्राप्यते, 'यदेतत्त्वयाकथित, स्वतो ज्ञातं अथवा कृतं' एवं प्रकारकप्रकृताऽर्थविरोध-संगतिरूप-संवादस्य सिद्धत्वेन, क्वचित्-विशिष्टयोग्यतासंपन्न–प्रज्ञापनीयपुरुषे वचनसाध्यार्थ-प्रतिपत्ति दृश्यते. एवं वचनस्य पौरुषेयत्वसिद्धया व्यक्ति-अपेक्षया (शंगग्राहिकया-प्रत्येकसर्व-सर्वदर्शिनोऽपेक्ष्य) ज्ञेयम्
कश्चिदेकोऽनादिशुद्धसर्वदर्शी, वचनस्य वक्ता मान्यः' एवंवादापत्तिदोषो नास्ति, यतः सर्वः सर्वदर्शी तथा पूर्वोक्तप्रकारस्वभावयुक्तत्वेन वचनपूर्वक एव परन्तु प्रवाहाऽपेक्षया, अनादिशुद्धो मान्य एव यतः प्रवाहोऽनादिरस्ति,
एवं वचनं तु पौरुषेयमेवाऽस्ति, पुरुषोच्चरितं ततः कस्याश्चिद्व्यक्तेरपेक्षया, अनादिशुद्धपरमात्मवाद-प्रतिपत्तेरापत्ति स्ति, अनादित आगच्छन्ती, काचिदेका व्यक्ति स्ति, यः सर्वज्ञो वक्ता भवेत् , प्रत्येक- सर्वज्ञाः पूर्वोक्तवत् वचनपूर्वका अभूवन् , सर्वज्ञपरम्पराऽपेक्षया तु अनादिशुद्ध-सर्वज्ञत इष्टोऽस्ति, यतः सर्वज्ञ-प्रवाहोऽनादितश्चलन्नस्ति, ततोऽस्माकमपि युष्माभिर्मीमांसकैः पूर्व-कथितवद् वस्तुगत्याऽपौरुषेयवचनापत्ति स्ति, 'सर्वज्ञसिद्धि ' आदि शास्त्रे विस्तारोऽस्याऽस्ति, ततो ज्ञेयं विशेषार्थिना ।
तदेवं श्रुतधर्मादिकराणां स्तुतिमभिधायाधुना श्रुतधर्मस्याभिधित्सुराह
"तमतिमिरपडलविद्धंसणस्स सुरगणनरिंदमहिअस्स। सीमाधरस्स वंदे पप्फोडिअमोहजालस्स ॥ २॥"
अस्य व्याख्या-तमः-अज्ञानं तदेव तिमिरं तमस्तिमिरं, अथवा तमः-बद्धस्पृष्टनिधत्तं ज्ञानावरणीयं
निकाचितं तिमिरं तस्य पटलं-वृन्दं तमस्तिमिरपटलं तद्विध्वंसयति-विनाशयतीति तमस्तिमिरपटलविध्वंसनः तस्य, तथा चाज्ञाननिरासेनैवास्य प्रवृत्तिः, तथा "सुरगणनरेन्द्रमहितस्य" तथा ह्यागममहिमां (मानं) कुर्वन्त्येव सुरादयः, तथा सीमांमर्यादां धारयतीति सीमाधरः तस्येति कर्मणि षष्ठी, तं वन्दे,