________________
ललितविस्तराखटीका -प्रशस्तिः - .
( आर्याच्छन्दः ) सुधर्मस्वामिपट्टे, त्रिसप्ततितमेऽथ भास्वरभास्करः । श्रीमान् पञ्जाबदेश-धर्मोद्धारधुरंधर-वरः ॥ १॥ तपागच्छाधीश्वरो, वित्तो विजयानन्दसूरीश्वरः । वादि-विजेता वादे, ग्रन्थालेखन-सिद्धहस्तः ॥ २॥ तत्पट्टाम्बर-सूर्यः, इडरतीर्थोद्धारकनृपबोधकः । श्रीकमलसरीश्वरः, कमलनिर्लेपो जयति जगति ॥३॥ तत्पट्टप्रद्योती, व्याख्यानवाचस्पति-सुविख्यातः । कटोसणनृपबोधकः, कविकुलकिरोटः शास्त्रज्ञः ॥४॥ भूरि-सूरि-करि-सिंहो लब्धीनामब्धि लब्धिसूरिपः । प्रत्युत्पन्नमतिधरो, जयतु शिष्यभुजिष्य-शिवकरः ॥५॥ तत्पट्टासनराजा, भुवनतिलकसूरि-करटि-पारीन्द्रः । श्रीकविकुलकोटीरः, सिद्धहस्तलेखप्रसिद्धः ॥६॥ शान्तिकारकः श्रीमान्, अन्तरीक्ष-तीर्थ-प्रभावकाग्यः । अन्तरीक्षेऽन्यचैत्यं, नवीनं कारयन् विजयते ॥७॥ तत्पट्टधरः श्रीमान्, श्रावस्तितीर्थोद्धारकः सूरिः। कर्णाटककेसरी च, संस्कृतकाव्यादि-कृति-चतुरः ॥८॥ प्रजयति श्रीमद्विजय-भद्रंकराचार्य-वर्य-धुर्यकः । भद्रंकरेणेतेन, ललितविस्तरा-महाग्रन्थे ॥९॥
287