________________
ललितविस्तरासटीका अत एव 'भाववृद्धयेऽपरयोगव्याघातवर्जनेन परिशुद्धामापादयन् योगवृद्धिम्' शुभाशयरूपभावस्य वृद्धयेऽपरो यो योगः ( स्तोत्रपाठभिन्नमोक्षोपायभूतयोगः ) तस्मिन् यो व्याघातः ( विघ्नोऽन्तरायः ) तस्य वर्जनेन ( अपरयोगव्याघातं वर्जयित्वा ) योगवृद्धि-स्थानादियोगे परिशुद्धा वृद्धिमापादयन-कुर्वन् साधु वा श्रावकःस्तोत्राणि पठति.
___पुनःकीदृशस्तोत्राणि ?-अन्येषां सविधानतः सर्वज्ञप्रणीतप्रवचनोन्नतिकराणि भावसारं= अन्येषां-जैनेभ्योऽन्येषामितरेषा,स्तोत्रविषयकसविधानतः,अपूर्वमनोहररचनातः-चमत्कारिसरसतया निर्माणतःसर्वज्ञप्रणीतजैनशासनोदयकराणि महास्तोत्राणि पठति।
____ कीदृशः सन् पठति ?-भावसारं परिशुद्धगम्भीरेण ध्वनिना सुनिभृताङ्गःसम्यगनभिभवन् गुरुध्वनि तत्प्रवेशात् अर्थाद् भावस्य प्रधानतापूर्वक सङ्गीतशास्त्रप्रसिद्ध तालशगयो नियमपूर्वक पद्धतिप्रमाणेन गुरुध्वनेस्तिरस्काराभावसहितं वादित्रध्वनौ गाथकध्वनेःप्रवेशादेकीभवनरूपलयादि भवेद् यथा तथा निश्चल-नम्रशरीरः सन् , साधु ा श्रावको महास्तोत्राणि पठति ।।
किं स्वरूपःसन् पठति ! अगणयन् दंशमशकादीन् देहे=भगवतःप्रति चित्तैकाग्येण देहे दशतां दंशमशकादीनामुपसर्गमगणयन् साधु र्वा श्रावको महास्तोत्राणि पठति।।
कया मुद्रया पठति:-योगमुद्रया रागादिविषपरममन्त्ररूपाणि महास्तोत्राणि पठति=नमोत्थुणं स्तोत्रपाठः ( तथाऽन्यस्तवपाठः ) उपविश्य पठनीयत्वेन योगमुद्रया पठ्यते ( अङ्गुलीनां परस्परमन्तरितकरणेन कमलनालाकारेण योजितहस्तद्वयस्य कफोणिद्वयं उदरे संस्थाप्य योगमुद्रा भवति, एतादृश्या योगमुद्रया रागद्वेषमोहादिविषनिवारणाय परममन्त्ररूपाणि महास्तोत्राणि साधु र्वा श्रावकःपठति. )
(जावंति चे. च जावंत केवि साहु पठनानन्तरं भण्यमानानि स्तोत्राणि स्तवनानि.) पठति. एतानि च तुल्यान्येव प्रायशः=
एतानि महास्तोत्राणि शक्रस्तवस्य तुल्यानि ( प्रभुगुणसदर्थमयत्वेन ) अथवा उपसर्गहरस्तोत्रतुल्यानि एव प्रायो ज्ञेयानि.
____यदि-एतानि महास्तोत्राणि शक्रस्तवतुल्यानि न मन्यन्ते तदा शुभभावरूपयोगस्य व्याघातो-विशेषतो हननं भवति. अतो महास्तोत्राणि शक्रस्तव (उपसर्गहरस्तोत्र) तुल्यानि मन्तव्यानि, महास्तोत्राणि ये न जानन्ति (पदपदार्थरूपेण ) तेषां पठ्यमानमहास्तोत्रसमये परद्वारा पठ्यमानस्तोत्रभिन्नापरस्तोत्रस्य श्रवणं कार्यम्, अतःस्तोत्रश्रवणेन योगपूर्तिःस्यात् . एवमेव-स्वयं महास्तोत्रपठनेन परद्वारा तत्तुल्यान्यस्तोत्रश्रवणेन च शुभस्य चित्तस्य लाभो भवति.
285