________________
ललितविस्तरासटीका शुद्धानि स्वरव्यञ्जनभेदज्ञापकानि सुज्ञेयपदच्छेदसम्पदादीनि समुचितध्वनिपूर्वकाणि सोपयोगं वाच्यानि भवन्ति.
(३) अर्थयोगदत्तचित्तः स्तोत्रसूत्रोच्चारसमये यथाज्ञानं शकस्तवादिस्तोत्रविषयकार्थविचाररूपोपयोगे दत्तचित्तेन भाव्यम् .
(४) आलम्बनयोगदत्तचित्तः चैत्यवंदनसूत्रविषयकार्थे विचार्यमाणे भावाऽहंदादिस्मरणं कर्त्तव्यं तथा यस्याग्रतो वंदनमारब्धं तत्प्रतिमाद्यपि स्मृतावेव रक्ष्यम्, अर्थादालम्बनभूतभावाऽहंदादिस्थापनाऽर्हदादिविषये सोपयोगःसन्नालम्बनयोग एकाग्रमना भाव्यः,
शङ्काः स्थाने, वणे, अर्थे, आलम्बने सर्वत्र युगपदनेकोपयोगाः कथं घटन्ताम् ? यत एकसमयाऽवच्छेदेन केवलिन्यपि युगपदुपयोगद्वयं नास्त्येव. .. समाधानम् : मनसः शीघ्रगतिमत्त्वेन वर्णतोऽर्थे, अर्थत आलम्बने इत्यादिरीत्या भिन्नभिन्नसमयाऽवच्छेदेन, भिन्नभिन्नोपयोगस्य विद्यमानत्वेऽपि यथा ज्वलदुल्मुकस्य वृत्तचक्रवद् भ्रमणतो ज्वालाभेदो न दृश्यते तथोपयोगभेदो न ज्ञायते, अतस्तद्रीत्या स्थानादिषु चतुर्षपयोगो रक्षणीयः. चतुष्टयभिन्नस्थाने नोपयोगो रक्षणीयः.
किञ्च-महास्तोत्राणि कीदृशानि, पठति तानि कथ्यन्ते
सर्वसाराणि ' महास्तोत्राणि' अर्थात् सर्वस्तोत्रेभ्यो, अतिशायीनि तथा सत्यार्थगुणसभराणि स्तोत्राणि साधु र्वा श्रावकःपठेत् , यतःस्तोत्रैः सत्सत्यगुणानां संकीर्तनेन मोक्षाभिलाषःप्रादुर्भवति तथा समरसःप्राप्यते, अन्यथाऽसद्भूतं-गुणानां कीर्तनं भयङ्करभववर्धकं भवति.
पुनःकीदृशानि ? भगवतां यथाभूतान्यसाधारणगुणसङ्गतानि भगवन्निष्ठसत्यासाधारणगुणैः (अबाध्यसिद्धान्तानंतज्ञानवीतरांगतादिगुणैः) सह सङ्गतिमन्ति-सम्बन्धावच्छिन्नानि, स्तोत्राणि साधुःश्रावको वा पठेत् , यतः, स्तोतव्याऽर्हद्भगवन्निष्ठासाधारणगुणानां संकीर्तनं शुभाशयकारणं ।
"नात्यद्भुतं भुवनभूषणभूतनाथ ! भूतैर्गुणैः भुवि भवन्तमभिष्टुवन्तः ।
तुल्या भवन्ति भवतो ननु तेन किं वा, भूत्याश्रितं य इह नात्मसमं करोति ॥" पुनःकीदृशानि तानि स्तोत्राणि ?
दुष्टालक्कारविरहेण प्रकृष्टशब्दानि । साहित्यशास्त्रप्रसिद्धशब्दालकारार्थालकारानपेक्ष्य दोषवतोऽलङ्कारान् विरहय्य प्रकृष्टाः-प्रकर्षवन्तः शब्दा येषु तानि प्रकृष्टशन्दानि महास्तोत्राणि, पठति साधुः श्रावको वा कीदृशः सन् स्तोत्राणि पठति !
284