________________
ललितविस्तरा - सटीका
विश्राणितश्रवणोपयोगः समागतः समवसरणतोरणान्तिकं तत्र चापूर्वं प्रमोदरसमनुभवन् भूमिन्यस्तजानुयुगलो गलन्निखिला शुद्ध कलिमलः कथयन्निव निजमानसविशदवासनां शिरसाऽभिवन्द्य भगवन्तं तथा स्थित एवासितुमारब्धवान्, ततस्तदेवंविधमश्वविलसितं विलोक्य विस्मितोऽहं कदाचिददृष्टपूर्वाश्चर्यपूर्यमाणमानसः समागतो भगवत्समीपमिति, ततः कथयतु मथितमिथ्यात्वो भगवान् किमेतदिति, भगवता भणितं - सौम्य ! समाकर्णय - समस्ति समस्तमेदिनोपद्मासदमभूतं पद्मिनीखेट नाम नगर, तत्राभ्यस्त जिनधर्मो जिनधर्म्मनामधेयः श्रेष्ठः श्रीसचयसमाश्रयः श्रेष्ठी वसति स्म, तथाऽपरः सागरदत्ताभिधानः प्रभूतधननिधानं निखिलजनप्रधानं जिनधर्म्मश्रावकपरममित्रं दीनानाथादिदयादानपरायस्तस्मिन्नेव पुरे श्रेष्ठी तिष्ठति स्म, स च प्रतिदिनं जिनधम्म श्रावकसमेतो याति जिनालयं, पर्युपास्ते पंचप्रकाराचारधारिणः श्रमणान् । अन्यदा तच्चरणान्तिके धर्ममाकर्णयन्निमां गाथामाकर्णयांचकार, यथा - "जो कारवेइ पडिमं जिणाण जियरागदोसमोहाणं । सो पावइ अन्नभवे, भवमहणं धम्मवररयणं ।। १ ।। " अवगतश्चानेनास्या भावार्थो, भवितव्यतानियोगत: समारोपितश्चेतसि, गृहीतः परमार्थबुद्धया, निवेदितः स्वाभिप्रायः श्रावकाय कृता तेनापि तदभिप्राय पुष्टिः, तदनु कारितवानसौ सकलकल्याणकारिणीं कल्याणमयीं जिनपतिप्रतिमां, प्रतिष्ठापयामास स महता विभवेन । तेन च सागरदत्तश्रेष्ठिना पूर्वमेव नगरबहिष्कारितं रुद्रायतनम्, अन्यदा तत्र पवित्रकारोपण दिने जटाधारिणः प्रव्रजिताः पशुपतिलिङ्गपूरणनिमित्तं शठप्रकृतयो मठेभ्यो घृतादिपूर्णकुम्भान्निकासयामासुः, तदधोभागे च भूयस्यो घृतपिपीलिका: पिण्डीभूता भूतवत्यः तेषु च निष्कास्यमानेषु भूतले ता निपेतुः, ते च ताः पथि पतिता निर्दयतया मदयन्तः संचरन्ति स्म, सोऽपि करुणार्द्रचेतास्तच्चरणचूर्यमाणा वस्त्रप्रान्तेनोत्सारयांचकार, तं चोत्सारयन्तं दृष्ट्वा एकेन जटाधारिणा धर्ममत्सरिणा घृतपिपीलिकापुंजं पादेनाक्रम्योपहसितः सागरदत्तः श्रेष्ठो - अहो श्रेष्ठिन् ! श्वेताम्बर इव दयापरः संवृत्तोऽसि ततोsसौ वणिक् विलक्षोभूतः किमयमेवमाहेत्यभिधाय तदाचार्यमुखमवालोकत, तेनापि तद्वचनमपकणितं, ततश्चिन्तितं चतुरचेतसा सागरदत्तेन - न खल्वमीषां मूर्खचक्रवर्तिनां मनसि जीवदया, न प्रशस्ता चेतोवृत्तिः, नापि सुन्दरं धर्मानुष्ठानमिति परिभाव्योपरोधविहिततत्कार्यो विशिष्टवीर्य विरहादनुपार्जित सम्यक्त्वरत्नः प्रवर्तितमहारम्भः समुपार्जितवित्तरक्षणाक्षणिको गृहपुत्रकलत्रादिकृतममत्वः प्रकृत्येव दानरुचिः प्रचुरद्रविणवांछ्या कदा व्रजति सार्थ ? क्व कि क्रयाणकं श्रीणाति - लोकः ? कस्मिन्मण्डले कियती भूमिः ? कः क्रयविक्रयकालः ? किं वा वस्तु प्राचुर्येणोपयुज्यते ? इत्याद्यहनिशं चिन्तयन्नुपार्जित तिर्यग्गतियोग्यकम्र्मा मृत्वा समुत्पन्नस्तव तुरङ्गतया, स्थापितः स्ववाहनतया । अद्य तु मदीयवचनमाकर्ण्य पूर्वजन्मनिर्मापितार्हत्प्रतिमाप्रभावप्राप्तावन्ध्यबोधबीजो दादवाप्तं सम्यक्त्वं भाजनीकृतः खल्वात्मा शिवसुखानामिति । एतत्सम्बोधनार्थं चाहमत्रागतवानिति च भगवानुवाचेति । ततः प्रभृति चाश्वावबोध इति नाम तीर्थं भरुकच्छं रूढमिति ॥
"
" तदाधिपत्यतो भावान्न देवानां स्वातन्त्र्येणेति” भगवत्स्वेवाधिपतिषु इयमुदाद्धिरुत्पद्यते, न देवेषु कर्तृष्वपि "अधिकानुपपत्तेरिति" अधिकपुण्यसम्भवे हि इतरद्धिर्हन्यते "सदा सत्त्वादिभावेनेति" "नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात्, अपेक्षातो हि भावानां, कादाचित्कत्वसम्भवः ।। १ ।। इति । अत्र तथाशब्दा एवंशब्दाश्चानन्तर हेतुना उत्तरहेतोस्तुल्यसाध्यसूचनार्थाः ॥
168