________________
ललितविस्तरा-सटीका तवत् "तत्रेति" दाने "वचनापेक्षेति" न हि भगवन्तो धम्मंदाने अन्यमुनय इव पराज्ञामपेक्षन्ते, क्षमाश्रमणानां हस्तेन सम्यक्त्वसामायिकमारोपयामीत्याद्यनुच्चारणात् ।
अश्वबोधाय गमनाकर्णनात् ।
"अश्वबोधाय गमनाकर्णनादिति," अश्वस्य-तुरङ्गमस्य बोधाय-सम्बोधाय भगवतः श्रीमतो मुनिसुव्रतस्वामिनो भृगुकच्छे गमनश्रवणात्, तथाहि-किल भगवान् भुवनजनानन्दनो द्विषदःसहप्रतापपरिभूतसमस्तामित्रसुमित्राभिधानभूपालकुलकमलखण्डमण्डनामलराजहंसो भवनत्रयाभिनन्दितपद्मापदपद्मावतीदेवीदिव्योदरशुक्तिमुक्ताफलाकारः श्रीमुनिसुव्रततीर्थनाथो मगधमण्डलमण्डनराजगृहपुरपरिपालितप्राज्यराज्यः सारस्वतादिवन्दारकवृन्दाभिनन्दितदीक्षावसरः तत्कालमिलितसमग्रवासवविसरविरचितोदारपूजोपचारः चारकाकारसंसारनिःसारसज्यां प्रव्रज्यां जग्राह, तदनु पवनवदप्रतिबद्धतया निजचलनकमलपांशुपातपूतं भूतलं कुर्वन् कियन्तमति कालं छद्मस्थतया विहृत्य निशातशुक्लध्यानकुठारधाराव्यापारविलूनदुरन्तमोहतरुमूलजालः सकलकालभाविभावस्वभावावभासनपटिष्ठं केवलज्ञानमुत्पादयामास, समुत्पन्नज्ञानं च भगवन्तमासनचलनानन्तरं विज्ञाय भक्तिभरनिर्भरा निखिलसुरपतयो विहितसमवसरणादिरमणीयसपर्याः पर्यायेण यथास्थानमुपविश्य भगवन्तं पर्युपासयामासुः, भगवांश्च सनीरनीरद इव भव्यजन्तुसन्तानशिखिमण्डलोल्लासनस्वभावो भासुराभिनवांजनपूजसकाशकायः कषायग्रीष्मसमयसंतप्तप्राणिसन्तापापनोददक्षो विक्षिप्तान्धकारभामण्डल तडिल्लतालङ कृत स्फुरद्धर्मचक्रकान्तिकलापोत्पादितनभोभूषणाऽऽखण्डलकोदण्डाडम्बर: सौधर्मेशानसुरपतिपाणिपल्लवप्रेर्यमाणधवलचामरोपनिपातप्राप्तबलाकापङिक्तप्रभवशोभः सकलसत्त्वसाधारणाभिः सद्धर्मदेशनानीरधाराभिः स्वस्थोचकार निःशेषप्राणिहृदयभूप्रदेशानिति । ततः प्रवृत्ते तीर्थेऽन्यदा भानुमानिव भगवान् प्रबोधयन् भव्यपद्माकरान् दक्षिणापथमुखमण्डनं जगाम भृगुकच्छाभिधानं नगरमिति, समवससार च तत्र पूर्वोत्तरदिग्भागभाजि कोरिण्टकनामन्युद्याने । अत्रान्तरे निशम्य निजपरिजनाद जिनागमनमानन्दनिर्भरमानसः समारुह्य जात्यतुरङ्गममनुगम्यमानो मनुजवजेनाजगामजगद्गुरुचरणारविन्दवन्दनाय तन्नगरनायको जितशत्रुनामा नरपतिः, प्रणिपत्य सकलकमलानिकेतनं जिनपतिपदकमलमुपविष्टो घटितकरकुड्मलो भगवच्चरणमूले, सम्गकणितवान् कर्णामृतभूतां भगवद्देशनां, तदनु जानन्नपि जनबोधनाय विनयपूर्वं प्रणम्य पप्रच्छ परमगुरुगणधरो, यथा-भगवन्नमुष्यां मनुष्यामरतिर्यक्कुलसङकूलायां पर्षदि कियद्भिर्भव्यजन्तुभिरपूवैरभ्युपगतं सम्यकत्वं, परीतः कृतः संसारसागरः, पात्रोकृतो/निर्वतिसुखानामात्मेति ?, ततः कुन्दकान्तदन्तदीप्तिभिरुद्योतयन्नभोऽङ्गणं जगाद जगन्नाथो, यथा-सौम्य ! समाकणय न केनचित्तुरङ्गरत्नमपहायापरेणेति, ततः श्रुत्वा सर्वज्ञवचनमवोचज्जितशत्रभूपति:-भगवन् ! कौतुकाकलितचित्तो जिज्ञासामि तुरगवृत्तान्तमहं । अन्यच्चभगवन्नहमस्मिन्नश्वरत्ने समारुह्य चलितस्ते चलननलिनम भिवन्दितं, विलोक्य त्रिलोकीतिलकतुल्यं समवसरणमवतीर्णस्तुरङ्गमात्, प्रवृत्तः पद्यामेवागन्तुं, तावत्सकलजन्तुजातचित्तानन्ददायिनी सजलजलदनादगम्भीरां गम्भीरभवपयोधिपोतोपमां समाकर्ण्य भगवद्देशनामानन्दपयःप्लावितपवित्रनेत्रपात्रो निश्चलोकृतकर्णयुगलः समुल्लसितरोमकूपो मुकुलिताक्षः क्षणमात्रमवस्थितोऽसावश्वः, तदनु पुनर्द्धर्मश्रवण
167