SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ ललितविस्तरा-सटीका क्लिष्टं कर्म प्रतिबन्धकं, क्लिष्टं तावत् परम्परानुबन्धवत् क्लेशकारि कर्म भवति, तत्कालमेव परमक्लेशकार्यपि, स्कन्दकाचार्यशिष्यकर्मवन्महावीरकर्मवद् वा न पुनर्गणनीयं इत्येष तन्त्रगर्भः । एवं च क्लिष्टकर्माभिभूतस्य चेतसः, वक्रत्वेन विशिष्टगुणस्थानं प्रति गमनाभावः, कथमिति चेत्, उच्यते पुनः क्लिष्टकर्मोदयस्यैवोपपत्तिरस्त्यतोऽवश्यमनुभवयोग्ये क्लिष्टकर्मणि सति कथमवकं चित्तगमनं स्यादिति ? ... न च सम्यग्दर्शनाऽवाप्तावपि कस्यचिन्मिथ्यात्वगमनात् कथमत्र क्लिष्टकर्माऽभाव: ? इति वाच्यम् असौ प्रकृतजीवः पूर्ववनमार्गस्य प्राप्तौ सत्यां; अतीवसानुबन्धक्लेशवान् न भवति, इत्येतत् प्रवचनपरमहृदयम् । ... .. यतो भिन्नग्रन्थे:-सम्यक्त्ववतः पुनः, ग्रन्थिबन्धो निश्चयेन न भवति, एवं पुनः पुनर्ग्रन्थिबंधेन ग्रन्थि नं विलीयते कदाचिदित्यादिशास्त्रीययुक्तियोगः, एवं, अनिवृत्तिकरणप्राप्त्या मार्गरूपक्षयोपशमस्य विशेषः, शेषक्षयोपशमेभ्यः, तथा च सानुबन्धक्षयोपशमवतो ग्रन्थिभेदादिरूपवस्तु, पतंजलिप्रभृति-योगाचार्याणां नामान्तरेणार्थात् प्रवृत्यादिशब्दवाच्यतया परतन्त्रेऽपि प्रतीतमेव (१) प्रवृत्तिः-चरमयथाप्रवृत्तिकरणशुद्धिरूपा, प्रकृतो मार्गः प्रतीत इत्यर्थः, (२) पराक्रमेण-वीर्यविशेषवृद्धया अपूर्वकरणेन प्रतीतः, इत्यर्थः, (३) जयः-प्रतिबन्धकतिरस्कारो विघ्नजयोऽनिवृत्तिकरणमित्यर्थः प्रतीतः, (४) आनन्दः-सम्यग्दर्शनलाभरूपः, 'तमोग्रन्थिभेदादानन्दः' इति प्रतीतः, .(५) ऋतम्भर:-सम्यग्दर्शनपूर्वको देवतापूजनादिर्व्यापारः, ऋतस्य सत्यस्य भरणादिति प्रतीतः । व अत्र कर्मयोगः-क्रियारूपो योगो ज्ञेयः, कर्मग्रहणं न, इच्छारूपप्रणिधानयोगो व्यवच्छेद्योऽस्ति, अन्यत्र शुभाशयरूपो योगः, प्रणिधिप्रवृत्तिविघ्नजयसिद्धिविनियोगभेदात् पंचधा कथितो वर्त्तते, आदिना इच्छायोगादिवचनग्रहः, अत एव विचित्रवचनश्रवणमित्युल्लेखः । ___ यथोदितमार्गस्याभावे-मिथ्यात्वमोहनीयादिक्षयोपशमरूप-मार्गस्य सुखेत्यपरनामकस्याभावे, सम्यग्दर्शनादिगुणानां लाभो न जायते, मिथ्यात्वमोहनीयादिक्षयोपशमविशेषमार्गस्य सद्भाव एव सम्यग्दर्शनादिगुणलाभो भवति, किंचाभय-चक्षुर्वद भगवद भ्य एव पूर्वोक्तविशिष्टमार्गो लभ्यते नान्यतोऽतः ‘मार्गदेभ्यो भगवद भ्योऽर्हद भ्यो नमः । 146
SR No.022497
Book TitleLalit Vistarakhya Chaitya Stavvrutti
Original Sutra AuthorN/A
AuthorBhadrankarsuri, Vikramsenvijay
PublisherBhuvan Bhandrankar Sahitya Prachar Kendra
Publication Year1991
Total Pages550
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy