________________
ललितविस्तरा-मटीका
ननु चित्तचाञ्चल्यरूपभवपरिणामे सत्यपि सम्पादर्शनादिलमयेन सम्यग्दर्शनादिरूपमीनधर्म प्रति चित्तस्वास्थ्यरूपाभयधर्मस्य : कारणता? यतः कारणाभावप्रयुक्तकार्योत्पत्तिरूपव्यतिरेक व्यभिचारदोषः कथं वार्यः ? इति बेदुच्यते भयपरिणामेन सम्यग्दर्शनादिरूपो मोक्षधर्मः प्रतिबदः (विरुद्धः-खण्डितः) यावद्भयपरिणामरूपप्रतिबन्धकस्विष्ठति तावत् स्थिरतारूपाभवागावेन मोक्षधर्मः प्रतिबध्यते, भयपरिणामरूपप्रतिबन्धकाभावप्रयुक्तचित्तस्थिरतारूपाभयधर्मद्वारा मोक्षधर्मः साध्यो भवति. अतो व्यतिरेकव्यभिचाराभावो यथा, अभयसत्त्वे मोक्षधर्मसत्ता, अभयाभाव मोक्षधर्मस्यासत्तेति अन्वयव्यतिरेको निश्चेतव्यो । मोक्षधर्मस धकेन चित-स्वास्थ्येन विरुद्धस्य, अस्वास्थ्यस्य विधायको भयपरिणामो भवतीत्यर्थः । धतिरूपाभयनामकमौलिकगुणस्य भगवद्भ्यः (भगवद्गुगबहुमानाहितकर्मक्षयोपशमजन्यत्वात्) एव सिद्धि भंवतिः एतद्विषये परम्परफलभूताः, पूर्वपूर्वहेतवश्चत्वारो दश्यन्ते तपाहि (१) एतेऽहंन्तः प्रकृष्टमुणवन्तः सन्ति अर्थात् भगवत्सु गुणानां प्रकर्षो विद्यतेऽतः. (२) भगवनिष्ठगुणप्रकर्षजन्यमचिन्त्यशक्तियुक्तत्वं (प्रकृत्य प्रकारीभूतधर्मो भावप्रत्यवायं इति न्यायेन तद्वत्त्वं-तविशिष्टत्वं तद्भुक्तवं नदेव यथा गन्धविशिष्टत्वं मन्धयुक्तत्वं च मन्ध एव, तथाऽत्रापि अचिन्त्यशक्तियुक्तत्व-अचिन्त्यशक्तिरेवेति बोध्यम् ॥) अचिन्त्यशक्तिरेव, गुणप्रकर्षकारणाभावेऽचिन्त्यशक्तिरूपकार्याभावः,. (३) भगवत्स, अचिन्त्यशक्तिमत्त्व एत्र भगवतामेवाभयमावेन (आत्मनिष्ठविशिष्टस्वस्थतान स्वरूपावस्थानरूपेण) स्थितिरेव, यती विनाऽचिन्त्यशक्ति, अभयभावेनाऽवस्थानमशक्यम् अभयभावावच्छिन्तावस्थितिरूपकार्य प्रति, अचिन्त्यशक्तिः कारणम् । ...... (४) यदा भगवन्तोऽचिन्त्यशक्तिप्रयुक्ताभयभावेन वर्तन्ते. तदा सर्वथा बीजाधानं (भव्यभूमिकायां सम्बस्वबीजवपनादिभिः परहितविधानं) यतः, स्वयं तथारूपगुणशून्यस्य परेषु गुणाधानस्याशक्यत्वं यथा स्वयमतीर्णः-निर्गुणः परास्तारयितु-गुणवतः कत्तु , अनीश एव, भगवभ्य एवाभयस्य सिद्धिः (धृतिरूपाभयस्य सिद्धि भगवद्भ्य एष, तत्कारणानि निरुच्यन्ते) (१) स्वास्थ्यरूपत्वेनाभयं प्रकृष्टगुणरूपं (२) मोक्षहेतुस्वेनाभयं अचिन्त्यशक्तियुत (३) धर्महेतुत्वेनाभयवत्वावच्छिन्नं, अभयं (v) भगवस्वभाववरण सर्वका पराधकरणरूपं, अभयं । एवं विशिष्टमभयं ददतीत्यभयदा अर्हन्तो भगवन्तो भवन्ति, एवं शक्रस्तवस्य पञ्चदशरूपाभयदपदस्थ व्याख्या समाप्ता. तथा 'चालुक्याणं' इह चलः चक्षुरिन्द्रिय, तच्च विधा, -- द्रव्यतो भावतश्च, द्रव्येन्द्रियं-बाह्यनितिसाधकतमकरणरूपं
.
.. 140