________________
ललितविस्तरा-सटीका
न सन्ति, अतस्तद्वस्तु नास्ति, एष हेतुः केवलव्यतिरेकी, यत्र यत्र साध्याभावस्तत्र तत्र साधनाभाव इति व्यतिरेक-व्याप्ति र्दशिताऽत्र. यतो यद् यद् वस्तु, अस्ति, तत्तदेकानेकस्वभान, मत्रान्वयव्याप्तो दीयमानाः प्रत्येकदृष्टान्ताः-साधर्म्यदृष्टान्ताः, पक्षान्तरेव गर्भिता भवन्ति, अतोऽन्वयव्याप्तिरत्न न दर्शिताऽस्तीति । वस्तुस्वरूपनिर्णयस्य निपुणन्यायमुद्रापूर्वकमीमांसा 3 सत्त्वामूर्तत्वचेतनत्वादिधर्मरहितस्य जीवत्वाद्ययोग इति न्यायमुद्रा, न सत्त्वमेवामूर्तत्वादि सर्वत्र तत्प्रसंगात्,
पं०...'सत्त्वामूर्तत्वचेतनत्वादिधम्म रहितस्य' सत्त्व--सत्प्रत्ययाभिधानकारित्वं, अमृत त्व-रूपादिरहितत्वं, चंतनत्वं-चैतन्यवत्त्वम् आदिशब्दात् प्रमेयत्वप्रदेशवत्त्वादिचित्रधर्मग्रहः, तै-रहितस्य-अविशिष्टीकृतस्य वस्तुनो जीवत्वाद्ययोगः' परस्परविभिन्नजीवत्वादिचित्ररूपाभावः, 'इति' एषा 'न्यायमुद्रा' युक्तिमर्यादा वत्तंते, प्रज्ञाधनैरपि परैरुल्लङिघतुमशक्यत्वात्, . ननु सत्त्वरूपानतिक्रमादमूर्तत्वादीनां कथं सति सत्त्वे जीवत्वाद्ययोग इत्याशङ्कक्याह-'न' नैव 'सत्त्वमेव' शुद्धसङग्रहनयाभिमतं सत्तामात्रमेव, 'अमूर्तत्वादि-अमूर्त (त्व) चैतन्यादि, जीवादिगतं, कुत इत्याह- सर्वत्र' सत्त्वे घटादौ 'तत्प्रसङगाद्' अमूर्तत्वचैतन्यादिप्राप्तेः, सत्त्वेकरूपात्सर्वयाऽव्यति रेकात्, यदि नामैवं ततः किमित्याह..... टी०...सस्वं (इदं सदिदं सदित्याकारकानुगत-प्रतीतिकारकधर्मः, सत्मब्दप्रवृत्तिनिमित्तं सत्त्वं) 'वामूस्विं (पादिरहितत्व) चेतनत्वं च (चैतन्यक्त्वं) बाविशब्दत: प्रमेयत्व-प्रदेशवत्त्वादिनानाविधधर्म-प्रकार-विशेषणरहिते = शून्ये वस्तुनि, परस्पर विभिन्न-भेदधर्म -युक्त-अजीवत्वभिन्नजीवत्वमूर्तत्वभिन्नामूर्तत्वरूपजीवत्वादिनानाविधधर्माभाव इति न्यायमुद्रा -युक्तिमर्यादा वर्तते. सत्त्वादिरूपानन्तधर्मविशिष्टे वस्तुनि जीवत्वादिनानाविधधर्मसम्बन्धो वर्तते इत्यन्वयव्यतिरेक-व्याप्तिरूपयुक्तिमर्यादा ज्ञेया, एषाऽबाध्या न्यायमुद्रा प्रतिभाधनैः परैरप्युल्लङिघतमशक्या. प्रकृतेऽत्र यत्र यत्र सत्त्वादिनानाधर्मवैशिष्टयं तत्र तत्र वस्तुत्वमथवा यद्यन्नानाधर्मविशिष्टं तत्तद्वस्तु, इत्यन्वय-व्याप्तिः, यत्र यत्र सत्त्वादिनानाधर्मवैशिष्टयं नास्ति, तत्र तत्र वस्तुत्वं नास्ति, अथवा यद्यन्नानाधर्मविशिष्टं नास्ति, तत्तद्वस्तु नास्ति, इति व्यतिरेकन्याप्तिः, तथा च सत्त्वीमतत्वचेतनत्वादि-अनेकधर्मावच्छिन्ने जीवपदार्थे जीवत्वादिरूपं वस्तुतत्त्व घटितं वर्तते, यः पूर्व स्वगतजीवत्वादीन् नानाधर्मान् जीवपदार्थे निश्चित्य, अजीवपदार्थगतेनाजीवत्वादिना भेदं साधयति. अथवाऽजीवपदार्थे जीवत्वादिना भेदं साधयति. स्वगतभेदका जीवत्वादयो धर्माः सन्तीति मतेनैव जीवोऽजीवाद भिन्नः, तद्भेदकजीवत्वेनैवेति सिद्धं स्यादन्यथा पदार्थक्यापत्तिः स्यात्, यदि नानाधर्मविशिष्टो जीवादिः पदार्थो नास्तीति मान्यतायां, केवल-अविशिष्ट-शुद्धजीवादिपदार्थे जीवत्वादिरूपस्य पदार्थस्वरूपस्याऽसम्भवः, यथा सत्त्वचेतनत्वादिनानाधर्मशून्ये केवलजीवपदार्थे, अजीवत्वभेदसाधकजीवत्वादिधर्माणां शून्यत्वेन, जीगत्वरूपपदार्थस्वरूपाभावापत्तिः कथं न ? यत्स्वस्वरूपं नास्ति, यत्पररूपमस्ति, अजीवत्वादिकं. तस्य पररूपस्यापत्तिः कथं न ? यतो न कश्चिद भेदकोऽस्ति, अर्थान्नानाधर्मविशिष्टजीवांदिवस्तन्येव जीवत्वादिरूपं नानास्वस्वरूपं घटते
98