________________
ललितविस्तरा-सटीका
परिपक्वं भवति तथा तथा तेषां श्रीमतामुतमता बहिराविर्भवति, वरबोधिलाभादनन्तरन्तुः जिनेश्वरात्मानः सर्वथा. परोपकारव्यसनिनः, उचितक्रियावन्तस्तथा : जमज्जन्तूनामुद्धरायोदारचरितादयो भवन्ति, तथा तेषां सकला क्रिया, सफलारम्भवती तथा सर्वोत्कृष्टपरोपकारकारिणी भवति, अन्यच्छह संसारे तीर्थकरात्मनां चेतरभव्यात्मनां मध्ये, असमानता शाश्वती यतः सहजतथाभव्यत्वादि, भेदकं वर्तते, श्री परमात्मनां 'सहज तथाभव्यत्वं'. सर्वेषामितरभव्यानां तथाभव्यत्वतो भिन्नजातीयमस्ति, अत एव श्री तीर्थंकरात्मानः सदाकालमितरसर्वभव्यात्मभ्य उत्तमा अतिशेरते, ते तु स्वकीय-सहजतथाभव्यत्वबलेन पुरुषेषु प्रधानत्वेन 'पुरुषोत्तमा' इति स्तूयन्ते, नरकनिगोदादिगता अपि ते स्वकीयसहजतधाभव्यत्वादिपारिणामिकमावबलेन सर्वदा सर्वोत्तमा एव निश्चीयते, तथाविधयोग्यताविशिष्टात्मानो यदा यदा तथाविधसामग्री, परिपक्वा, भवति तदा तदा तेषामुत्तमता कार्यरूपेण परिणता भवति, पूवोक्तविशिष्ट-योग्यतया. ते-आत्मानः प्रादुर्भावण परार्थव्यसनिन इत्यादि गुणसम्पत् समन्विता भवन्ति, तादृशामौकिकदशाप्रापकस्य कारणस्यानादिकालीनत्वाद्, श्री तीर्थकरदेवात्मनां 'एतेऽहंन्तो भगवन्तोऽनादिकालतः परार्थव्यसनिन इत्यादयो भवन्ति' इति कथनमतिशयोक्तिरहितं निधिमेवेति.। . . भाविनि-भविष्यकाले भगवद्भाव:-तीर्थकरत्वं येषां ते भाविभगवद्भावा ये सत्वा-जीवा स्तेषां समाः-समानताभावः, सर्वे एव सत्त्वा नव प्रवन्ति, तीर्थकरात्मनां तुल्यतायां तत्पङक्ती तीर्थंकरभिन्ना अन्ये सर्वे सत्वा नवामच्छन्ति, कुत इत्याहसमीचीना या शिक्षा सूत्रपाठविहिलसिलादिः सापकमादिरूपा शिक्षा, तस्या अनर्हाणा-अयोग्यतावतां बुडुङकानां (मुद्गर्शलवत् अभव्यानों, पार्वतारोहताना) मात्मविषाणां, व्यत्ययस्योपलव्धेःप्रकृतविपरीतगुणदर्शनात्-प्रकृतपूर्वोक्ततीकरात्मनिष्ठ-परार्थव्यसमितादिगुणगणतो विपरीत-विरुद्ध स्वार्थान्धताक्षुद्रतादि-दोषाणां दर्शनात्, सर्वे सत्वा एव तीर्थंकरसदृशा न भवन्तीत्यर्थः, व्यतिरेकशैल्या विचारयति 'अन्यथा'-प्रकृतगुणवपरीत्याभावे खुडङकेषु पूर्वोक्तप्रकृतगुणविरुद्धस्वार्थान्धताक्षुद्रतादिदोषाणां मान्यताया अभावे, सति सम्यशिक्षाऽनहत्वस्वार्थपरायणतादिदोषरूपलक्षणानामभावः स्यात्, कथमिति चेदुच्यते, खुडुकत्व-सम्यशिक्षाऽनहत्वरूपस्वलक्षणस्याभावी वत्तंते, एतावदपि वक्तुं न युज्यते, ते खुडुका न सन्तीति, यतः सर्वेषां दर्शनिनां वादिनां च खुडुङकानां प्रतिपत्तिरविगानेनाविरोधेन सम्मतव. सम्यशिक्षाऽनर्हाः बुडुङकाः सन्त्येवान्यथा सर्व सम्यशिक्षायोग्या एवेति मन्तव्यं स्यादिति. (सम्यक्त्वादिप्राप्तेरनन्तरोत्तरावस्थायामसमानता भवतु, पूर्वावस्थासु त्वसमानत्वं केन प्रकारेण घटमानं भवतीति ?) अर्थात् तीर्थकरपदरूपं फलं प्रति हेतुस्तु वरबोधिलाभोऽस्ति, तदनन्तरं तीर्थकरभगवदात्मसु सर्वेषामन्येषां भव्यजीवेभ्यो वैशिष्टयं भेदश्च वरमस्तु, यतस्तद्भेदकारणं वरबोधिरेव, परन्तु बरबोधिप्राप्तितः प्रागवस्थायां तीर्थकरात्मानोऽन्ये-च सर्वे भव्यात्मान एक
85