________________
द्वितीयो भाग / सूत्र - ११, द्वितीय किरणे कस्यापि द्वौ स्यातां कस्यापि त्वेकः, स च केवली सिद्धो वा भवस्थकेवली वा भवेत्, भवस्थकेवलिनोऽद्यापि सकर्मकत्वादेकदैक एवोपयोगः, सिद्धकेवलिनस्तु सकलकर्मविमुक्तत्वेन
युगपद् द्वावप्युपयोगौ भवत इति भद्रबाहुस्वाम्यभिप्राय इति वाच्यम्, सिद्धाधिकारे सिद्धस्यैव तैयुपयोगस्य निषिद्धत्वात् । 'उवउत्ता दंसणे य नाणे य' इति वचनन्तु समुदायविषयमेव न तु कस्यचिदपि युगपदुपयोगप्रतिपादनपरम् । साद्यपर्यवसितत्वमपि तयोर्न बाधकं, यद्बोधस्वभावेन सदावस्थितं तस्योपयोगेनापि सदा भवितव्यमिति नियमाभावात्, लब्ध्यपेक्षया तयोरपर्यवसितत्वोक्तेः । केवलज्ञानदर्शनभिन्नज्ञानदर्शनानां निजनिजस्थितिकालं यावदुपयोगाभावेऽपि सत्त्वस्य दर्शनात् । उपयोगो ह्येषामान्तौहूर्तिकः, तस्मात्सतोऽप्यवश्यमुपयोगेन भवितव्यमिति न नियमो व्यभिचारात् । न च क्रमिकोपयुक्तत्वे केवलिनो दर्शनोपयोगाभावकालेऽसर्वदर्शित्वं ज्ञानोपयोगाभावकाले चासर्वज्ञत्वं प्राप्नोति न चैतदिष्टं सर्वदैव केवलिनः सर्वज्ञत्वसर्वदर्शित्वयोरिष्टत्वादिति वाच्यम्, छद्मस्थस्यापि ज्ञानदर्शनयोरेकतरस्मिन्नुपयोगे प्रोक्तदोषसमूहस्य जागरूकत्वात् । तथा च निरावरणत्वेऽपि केवलिनस्स्वभावादेव युगपदुपयोगाभाव इति । यदेव केवलज्ञानं तदेव केवलदर्शनमिति वादिनस्सिद्धसेनदिवाकरा वदन्ति-सामान्यविशेषपरिच्छेदावरणापगमे कस्य प्रथमतरमुत्पादो भवेत् ? एकस्योत्पादेऽपरस्याप्युत्पादापत्तेः, एकसामग्र्या अपरोत्पत्तिप्रतिबन्धकत्वे विनिगमनाविरहेणापरसामग्र्या अप्येकोत्पत्तौ प्रतिबन्धकत्वेनोभयोरप्यभावप्रसङ्गात् "सव्वाउ लद्धीउ सागारोवउवओगोवउत्तस्से" ति वचनप्रामाण्यात्प्रथमं केवलज्ञानस्य पश्चात्केवलदर्शनस्योत्पाद इति चेन्न लब्धियोगपद्य एवास्य वचनस्य साक्षित्वेनोपयोगक्रमाक्रमयोरौदासीन्यात् । यौगपद्येनाप्युक्त वचनस्य निर्वाहे दर्शनस्यानन्तरोत्पत्यसिद्धेश्च, न च ज्ञानोपयोगसामान्ये दर्शनोपयोगत्वेन हेतुतेति निर्विकल्पकसमाधिरूपछद्मस्थकालीनदर्शनात्प्रथमं केवलज्ञानोत्पत्तिः केवलदर्शने; केवलज्ञानत्वेन विशेषहेतुत्वाच्च द्वितीयक्षणे केवलदर्शनोत्पत्तिस्ततश्च क्रमिकसामग्रीद्वयसम्पत्त्या क्रमिकोपयोगद्वयधारानिर्वाह इति वाच्यम्, "दंसणपूव्वं नाणं" इत्यादिना तथा हेतुत्वस्य प्रमाणाभावेन निरसनीयत्वात्, उत्पन्नस्य केवलज्ञानस्य क्षायिकभावत्वेन नाशायोगाच्च । न च मुक्तिसमये क्षायिकचारित्रनाशवनश्यतीति वाच्यम्, तस्य क्षायिकत्वेऽपि
१. अनन्ता हि सिद्धास्तत्समुदाये केऽपि ज्ञाने उपयुक्ताः केऽपि च दर्शन इति समुदायापेक्षं युगपदुपयोगप्रतिपादनं न तु प्रत्येकापेक्षया प्रत्येकस्य युगपदुभयोपयोगनिषेधादिति भावः । सिद्धो हि बोधस्वभावेन सदावस्थितः, अतस्तेन सोपयोगेन भवितव्यमिति द्वयोर्युगपदुपयोगस्सिद्ध इति साद्यपर्यवसितत्वं तयोरित्याशंकायामाह साद्यपर्यवसितत्वमपीति ॥