________________
द्वितीयो भाग / सूत्र - १८-१९, प्रथम किरणे
त्यसम्भव इति वाच्यम्, बाह्यार्थानां तथाविधमनःपरिणामान्यथानुपपत्तिलिङ्गकानुमानेनैव ग्रहणाभ्युपगमात्, मनःपर्यवस्य धर्मिग्राहकप्रमाणेन मनोद्रव्यमात्रालम्बनतयैव सिद्धेः । अर्धतृतीयद्वीपसमुद्रपरिमाणमानुषक्षेत्रवृत्तिमनोद्रव्यविषयमिदं ज्ञानं न तद्बहिर्भूतप्राणिमनांस्यवगच्छति । तथा संज्ञिजीवैर्मनोद्रव्याणि गृहीत्वा मनस्त्वेन परिणमितानां द्रव्यमनसामनन्तान् पर्यायान् विषयीकरोतीदम् । न तु भावमनसः पर्यायान्, अमूर्त्तत्वात् छद्मस्थस्य चामूर्तविषयायोगात् । अत एव मनःपर्यायमात्रविषयकसाक्षात्कारिज्ञानत्वमित्यनुक्त्वा मनोद्रव्येत्युक्तम् । मनोद्रव्याणि वीक्ष्य चिन्तनश्चातीतानागतपल्योपमासंख्येयभागविषयम् । पटुतरक्षयोपशमप्रभवत्वादिदं यतो विशेषमेव गृह्णदुत्पद्यते न सामान्यमतो ज्ञानरूपमेव न तु दर्शनरूपम् । अत्र मनःपर्यवज्ञानी मनश्चिन्ताप्रवर्तकानि द्रव्याणि जानाति बाह्यार्थांश्चाचक्षुर्दर्शनेन पश्यतीत्यतः कथं न तस्य दर्शनरूपतया, अन्यथा पश्यतीति प्रयोगानुपपत्तिः स्यात् यदि चाचक्षुर्दर्शनेन पश्यति तर्हि मतिश्रुतवत्परोक्षत्वं प्राप्तं, अचक्षुर्दर्शनस्य तत्रैव समावेशात् प्रत्यक्षार्थविषये मन:पर्यवज्ञाने परोक्षार्थविषयस्याचक्षुर्दर्शनस्य कथं प्रवृत्तिरिति पूर्वपक्षः, अत्र केचिद्वदन्ति समाधानम्, मन:पर्यवज्ञानी पश्यत्यवधिदर्शनेन, मनःपर्यवज्ञानेन जानातीत्यतो न विरोध इति तन्न सम्यक्, अवधिमन्तरेणापि मतिश्रुतमनःपर्यवरूपज्ञानत्रयस्यागमे प्रतिपादितत्वात्, किन्तु एकस्यैव मनःपर्यवज्ञानिनः प्रमातुर्मनःपर्यवज्ञानानन्तरमेव मानसमचक्षुर्दर्शनमुत्पद्यत इति न जानाति पश्यतीति व्यवहारयोरनुपपत्तिः, अत एव न परोक्षत्वाद्यापत्तिः, ज्ञानभेदात् । न चैवं मनःपर्यवज्ञानिनः प्रत्यक्षज्ञानित्वं विरुद्धयते, परोक्षज्ञानवत्त्वादिति वाच्यं भिन्नविषयत्वात्, न ह्यवधिज्ञानिनश्चक्षुर्दर्शनाचक्षुर्दर्शनाभ्यां पश्यतः प्रत्यक्षज्ञानितायां कोऽपि विरोध इति विभावनीयम् ॥ मनःपर्यवज्ञानसमृद्धिमतामप्रमत्तसंयतानामुत्पद्यमानमिदं द्विधा समुत्पद्यत इत्याह स इति मनःपर्यव इत्यर्थः । मननं मतिसंवेदनमित्यर्थः, ऋज्वी सामान्यग्राहिणी मतिः ऋजुमतिः, घटोऽनेन चिन्तित इत्यादिसामान्याकाराध्यवसायनिबन्धनभूता कतिपयपर्यायविशिष्टमनोद्रव्यपरिच्छेदरूपेत्यर्थः ।
१. न चावधेर्दर्शनवन्मनःपर्यवस्यापि दर्शनं स्यात् ततस्तेनासौ पश्यतीति व्यपदेश उपपत्स्यत इति वाच्यम् चतुर्विधदर्शनादधिकस्य दर्शनस्यागमेऽनुक्तत्वात् । न च चक्षुर्दर्शनादिचतुष्टयाधिक्येनानुक्तमपि विभङ्गदर्शनं यथाऽवधिदर्शनेऽन्तर्भूतं तथा मनःपर्यवदर्शनमपि अवधिदर्शनान्तर्भूतं सदवधिदर्शनसंज्ञितं भविष्यतीति वाच्यम्, तथापि शास्त्रविरोधात्, मतिश्रुतमनःपर्यवज्ञानवतो दर्शनद्वयस्यैव मतिश्रुतावधिमनःपर्यवज्ञानवतश्च दर्शनत्रयस्यैव शास्त्रे प्रोक्तत्वात्, यदि मनःपर्यायदर्शनमपि स्यात्तदा मतिश्रुतमनःपर्यवज्ञानी दर्शनद्वयवान स्यादिति ॥