________________
२६
तत्त्वन्यायविभाकरे
વિકલના પ્રકારને કહે છે.
-
ભાવાર્થ – “અવધિજ્ઞાન અને મન:પર્યવજ્ઞાન તો તે તે આવરણના ક્ષયોપશમથી જન્ય હોવાથી 'विस' म्हेवाय छे."
વિવેચન – અવધિજ્ઞાનાવરણનો અને મનઃપર્યાવાવરણનો જે ક્ષયોપશમ, તે તેનાથી જન્ય હોવાથી विडस छे.
આ અવધિ-મન:પર્યવજ્ઞાનમાં ક્રમસર રૂપીદ્રવ્ય વિષયકત્વ અને મનોદ્રવ્ય વિષયકત્વ હોઈ, સર્વવિષયકપણું નથી માટે વિકલપણું છે. ‘ક્ષયોપશમજન્ય હોવાથી’-આવા કથનથી, કેવલજ્ઞાનભિન્નતા અને કૈવલીમાં વૃત્તિત્વનો અભાવ છે, એવું સૂચિત કરેલ છે; કેમ કે-કેવલજ્ઞાન ક્ષાયિક હોવાથી અને કેવલી ક્ષાયિકભાવવાળા છે. વળી નિરંતર તે કેવલી સ્વભાવથી કેવલજ્ઞાન-દર્શનરૂપ ઉપયોગના વ્યાપારવાળા હોઈ ક્ષાયોપશમિક ઉપયોગના અસંભવવાળા છે.
तत्रावधि लक्षयति -
इन्द्रियसंयमनिरपेक्षो रूपिद्रव्यविषयकस्साक्षात्कारोऽवधिः । स द्विविधो भवजन्यो गुणजन्यश्चेति । भवो जन्म, तस्माज्जन्यो यथा सुरनारकाणाम्, गुणस्सम्यग्दर्शनादिः, तज्जन्यो यथा नरतिरश्चाम् ॥ १२ ॥
इन्द्रियेति, यद्विषयकज्ञानत्वावच्छिन्नं प्रति नियमेनेन्द्रियाणां संयमस्य चापेक्षा नास्ति तादृशो रूपिद्रव्यविषयकः साक्षात्कारोऽवधिरित्यर्थः । मतिज्ञानादौ मनः पर्यवज्ञाने चातिव्याप्तिवारणायेन्द्रियसंयमनिरपेक्षेति पदम् । संयमप्रत्ययावधिविशेषेऽव्याप्तिवारणाय नियमेनेत्युक्तं, पुद्गला रूपिण इति शाब्दबोधस्य वारणाय साक्षात्कार इत्युक्तम् । यादृशावधिस्संयमानन्तरमेव जातः तादृशावधेस्संयमसापेक्षत्वेनाव्याप्तिरतो रूपिसमर्व्याप्यविषयताशालिज्ञानवृत्तिज्ञानत्वव्याप्यजातिमत्त्वं लक्षणम् । परमावधिज्ञानमादाय सर्वावधिषु लक्षणसमन्वयः कार्यः । रूपिव्यापकविषयताकत्वं तु न वाच्यं केवलज्ञानेऽतिव्याप्तेः । ज्ञानत्वमादाय मत्यादावतिप्रसङ्गोन्मूलनाय ज्ञानत्वव्याप्येति । विषयतापदेन स्पष्टीयविषयता ग्राह्या तेन पुद्गला रूपिण इति शाब्दबोधे नातिप्रसङ्गः, तस्यास्पष्टीयविषयताकत्वादिति ॥
स
चावधिर्जघन्यतोऽङ्गलासंख्येयभागादारभ्य प्रदेशान्तरवृद्धयोत्कृष्टतोऽलोकेऽपि लोकप्रमाणान्यसंख्येयखण्डानि क्षेत्रविषयः, कालोऽपि जघन्यत आवलिकाऽसंख्येयभागादारभ्य
९. यत्र यत्रावधिविषयता तत् तत्सर्वं रूपिद्रव्यं तथा यद्यद्रूपिद्रव्यं तत्र सर्वत्रावधिविषयतेति समव्याप्यव्यापकभावो विज्ञेयः ।