________________
द्वितीयो भाग / सूत्र -५६-५७-५८, द्वितीयः किरणे
६७७ સાધુઓને ખપે છે, આવું ખપતું નથી-આવા રૂપનો હોય છે. દ્રવ્ય-ક્ષેત્ર-ભાવવિશેષથી જન્ય હોવાથી તે અભિગ્રહ ચાર પ્રકારનો થાય છે.
तत्र द्रव्याद्यभिग्रहानाह
विशिष्टद्रव्यपरिग्रहो द्रव्याभिग्रहः । विशिष्टक्षेत्रस्थदातृसकाशादन्नादिग्रहणं क्षेत्राभिग्रहः । विशिष्टकाल एवान्नादिग्रहणं कालाभिग्रहः । विशिष्टभावयुतदातृसकाशादन्नादिपरिग्रहो भावाभिग्रहः । इति करणनिरूपणम् ॥५८ ॥
विशिष्टेति । विशिष्टं द्रव्यं लेपवज्जुगार्यादि तन्मिश्रं अलेपवद्वा मण्डकादिद्रव्यमद्य ग्रहीष्यामि दीकुन्तादिना, अथवा यद्यहं कुल्माषबाकुलान् शूपैंककोणस्थान् लप्स्ये तान् ग्रहीष्यामि नान्यथेत्येवमादिरूपो द्रव्यविषयो नियम इत्यर्थः । क्षेत्राभिग्रहमाह विशिष्टक्षेत्रेति, निगडनियंत्रितचरणा यद्येकं पादमुदुम्बरस्य मध्ये द्वितीयं च बहिष्टादात्री करिष्यति तदाहं भिक्षां ग्रहीष्यामि नान्यथेत्यादिरूप इत्यर्थः । कालाभिग्रहमाचष्टे विशिष्टकालेति, यदि दिवसद्वितीयपौरुष्यामतिक्रान्तायां दास्यति तदा भिक्षां ग्रहीष्यामि नान्यथेत्येवंरूप इत्यर्थः । भावाभिग्रहमाह विशिष्टभावेति, विशिष्टभावश्च, उत्क्षिप्तचरकाः,संख्यादत्तिका इष्टलाभिकाः पृष्टलाभिका इत्यादयः, त एते गुणगुणिनोः कथञ्चिदभेदाद्भावयुता अभिग्रहा भवन्ति, यद्वा गायन् यदि दास्यति तदा मया ग्रहीतव्यं, एवं रुदन् वा, निषण्णो वा, उत्थितो वा, संप्रस्थितो वा यद्ददाति तद्विषयो योऽभिग्रहः सर्वोऽपि स भावाभिग्रह इत्यर्थः । लेशेनैवं सति प्रयोजने क्रियमाणा मोक्षार्थिभिः करणसप्ततिनिरूपितेत्याहेतीति ॥ इति तपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टधर-श्रीमद्विजयकमलसूरीश्वर
चरणनलिनविन्यस्तभक्तिभरेण तत्पट्टधरेण विजयलब्धिसूरिणा विनिर्मितस्य तत्त्वन्यायविभाकरस्य स्वोपज्ञायां न्यायप्रकाशटीकायां करणसप्ततिनिरूपणंनाम द्वितीयः किरणः॥
દ્રવ્ય આદિ અભિગ્રહોનું વર્ણન ભાવાર્થ – “વિશિષ્ટ દ્રવ્યનો પરિગ્રહ, એ દ્રવ્યાભિગ્રહ કહેવાય છે. વિશિષ્ટ ક્ષેત્રમાં રહેલ દાતાની પાસેથી અન્ન આદિનું ગ્રહણ, એ ‘ક્ષેત્રાભિગ્રહ કહેવાય છે. વિશિષ્ટ કાળમાં જ અન્ન આદિનું ગ્રહણ, એ કાલાભિગ્રહ' કહેવાય છે. વિશિષ્ટ ભાવ સહિત દાતાની પાસેથી અન્ન આદિનો પરિગ્રહ, એ 'भावामिय' ठेवाय छे. या प्रमाण ४२९१(सप्ता)नु नि३५९समाप्त थाय छे."
વિવેચન – વિશિષ્ટ દ્રવ્ય એટલે લેપવાળું જુગારિ (જુ-આરિ અન્નવિશેષ આદિ), તેનાથી મિશ્રિત, અથવા અલેપવાળા મંડક આદિ દ્રવ્યને હું આજે ગ્રહણ કરીશ. કડછીના અગ્રભાગ આદિથી અથવા સૂપડાના