________________
६१०
तत्त्वन्यायविभाकरे
निर्जराभावनामाह -
नरकादिषु कर्मफलविपाकोदयोऽबुद्धिपूर्वकस्तपः परीषहादिकृतश्च कुशलमूल इति विभावनं निर्जराभावना । अनया च कर्मपरिक्षयाय यतेत ॥ १३ ॥
नरकादिष्विति । नरकादिषु कर्मफलविपाकोदयस्याबुद्धिपूर्वकत्वेन संसारानुबन्धित्वात्पापरूपत्वं तपसा परिषह्यजयेन वा कृतस्य बुद्धिपूर्वकत्वेन शुभानुबन्धित्वान्निरनुबन्धित्वाद्वा उपकारकमित्येवं विचिन्तयतो निर्जराभावना प्रोच्यत इति भावः फलमाहानया चेति कर्मपरिक्षयाय तपःप्रभृतिभिर्वर्धमाननिर्जरया ममत्वादिरूपकर्मणां परिशाटनायेत्यर्थः ॥
નિર્જરાભાવનાનું નિરૂપણ
ભાવાર્થ – “જ્યારે નરક આદિમાં કર્મના ફળનો વિપાકરૂપ ઉદય બુદ્ધિ વગરનો છે અને તપપરીષહજ્ય આદિથી કર્મના ફળનો વિપાકોદય બુદ્ધિપૂર્વકનો હોઈ કુશલના મૂલવાળો છે. આવો વિચાર, એ 'निर्भराभावना' मा भावनाथी दुर्मना क्षय भोटे प्रयत्न अरो !”
વિવેચન – જ્યારે નરક આદિમાં કર્મના ફળનો વિપાકોદય અબુદ્ધિપૂર્વકનો હોઈ સંસારનો અનુબંધી હોવાથી પાપરૂપ છે. તપથી કે પરીષહના જયથી કરેલો વિપાકોદય બુદ્ધિપૂર્વકનો હોઈ શુભ પુણ્યનો અનુબંધી હોવાથી કે અનુબંધ વગરનો હોવાથી ઉપકારકારક છે. આ પ્રમાણે ચિંતન કરનારને 'निर्भराभावना' हेवाय छे.
આ ભાવનાથી કર્મના પરિક્ષય માટે એટલે તપ વગેરે વડે વર્ધમાન નિર્જરાથી મમત્વ આદિ જન્ય કર્મોના વિનાશ માટે પ્રયત્ન કરે !
लोकभावनामाचष्टे -
पञ्चास्तिकायरूपानेकपरिणाम्युत्पादव्ययध्रौव्यात्मको लोको विचित्रस्वभाव इति विचारणा लोकभावना । एतया च निर्ममत्वमुदियात् ॥ १४ ॥
पञ्चास्तिकायेति । लोक्यते दृश्यते केवलज्ञानभास्वतेति लोकः, स च धर्मास्तिकायेनाधर्मास्तिकायेन वाऽवच्छिन्नो निखिलद्रव्याधारो विशिष्टसंस्थानो गगनभागः क्षेत्ररूपः, द्रव्यरूपस्तु जीवाजीवरूपः, एतदभिप्रायेणैव पञ्चास्तिकायरूपेत्युक्तंम्, यत ईदृशो लोकोऽत
१. अनेन निक्षेपस्सूचितः तथाहि रूप्यरूप्यात्मकः सप्रदेशासप्रदेशरूपः जीवाजीवसमुदायो द्रव्यलोको नित्यानित्यात्मकः, आकाशस्य प्रदेशा ऊर्ध्वाधस्तिर्यक्षु क्षेत्रलोकः, अलोकाकाशप्रदेशापेक्षया चानन्तः, समयावलिकामुहूर्त्तदिवसाहोरात्रपक्षमाससंवत्सरयुगपल्योपमसागरोपमोत्सर्पिणीकालचक्रपुद्गलपरावर्त्तरूपः काललोकः, चतुर्गतिषु वर्त्तमाना जीवास्तत्र तत्र भवे यदनुभावमनुभवन्ति स भवलोकः, औदायिकौपशमिकक्षायिककक्षायोपशमिकपारिणामिकसान्निपातिकरूपो भावलोक इति ॥