________________
५७४
तत्त्वन्यायविभाकरे
तपस्विनं शैक्षकञ्चाह -
किञ्चिदूनषण्मासान्तोग्रतपोऽनुष्ठाता तपस्वी । अनारोपितविविक्तव्रतश्शिक्षायोग्यश्शैक्षकः ॥२८॥
किञ्चिदिति । दशमादिकिञ्चिन्न्यूनषण्मासान्तमुग्रस्य भावविशुद्धस्य अनिश्रितस्याल्पसत्त्वभयानकस्य वा तपसोऽनुष्ठातेत्यर्थः । अनिश्रितं तपो नाम शुभयोगसंग्रहाय परसाहाय्यानपेक्षं भावतपः । अथ शैक्षकमाह अनारोपितेति, अनारोपितं विविक्तं दोषरहितं व्रतं यस्य तादृशः, शिक्षायोग्यश्च शैक्षकः, अभिनवप्रव्रजितो ग्रहणासेवनाशिक्षायोग्यः तत्र शैक्षकोद्विविधः, आज्ञया परिणामको दृष्टान्तेन परिणामकश्चेति, तदेव सत्यं यज्जिनैः प्रवेदितमित्येवं यो निस्संशयं श्रद्धधाति न च कारणमपेक्षते स आज्ञापरिणामक उच्यते, यस्तु लिङ्गेन गम्यमर्थं प्रत्यक्षप्रसिद्धदृष्टान्तेनात्मबुद्धावारोपयन् वर्त्तते स दृष्टान्तपरिणामक उच्यते । सप्तरात्रिन्दिवचतुर्मासषण्मासैर्जघन्यमध्यमोत्कृष्टरूपैरुपस्थाप्यतेऽयम् ॥
તપસ્વી અને શૈક્ષકનું વર્ણન ભાવાર્થ – “કાંઈક ન્યૂન છ મહિના સુધીના ઉગ્ર તપ કરનાર “તપસ્વી' કહેવાય છે અને અનારોપિત વિવિક્ત વ્રતવાળો અને શિક્ષાયોગ્ય “શૈક્ષિક છે.” - વિવેચન – દશમ (૪ ઉ.) આદિથી માંડી કાંઈક ન્યૂન છ માસ સુધીના ઉગ્ર, ભાવવિશુદ્ધ, અનિશ્ચિત કે અલ્પ સત્ત્વવાળાને ભયંકર એવા તપના કરનાર “તપસ્વી' કહેવાય છે. શૈક્ષકના બે પ્રકારો-(૧) તે જ સાચું છે, કે જે જિનેશ્વરોએ દર્શાવેલ છે; આવી રીતે નિઃસંદેહ શ્રદ્ધા જે કરે છે અને કારણની અપેક્ષા કરતો નથી, તે ‘આજ્ઞા પરિણામક કહેવાય છે. વળી (૨) જે હેતુથી ગમ્ય અર્થને પ્રત્યક્ષ પ્રસિદ્ધ દષ્ટાન્તથી આત્મબુદ્ધિમાં आरोपए४२तो वर्ते छ, ते दृष्टान्तपरिणाम' अवाय छे. धन्य-मध्यम-उत्कृष्ट३५ सात रात्रि-हिन, ચાર માસ અને છ માસમાં શૈક્ષક, ઉપસ્થાપના(વડી દીક્ષા)નો વિષય બને છે.
अथ ग्लानमाह - अपटुाध्याक्रान्तो मुनिग्र्लानः ॥ ॥ २९
अपटुरिति । भिक्षादिकं कर्तुमसमर्थः ज्वरादिव्याध्याक्रान्त इत्यर्थः । अस्य वैयावृत्त्यं कार्यमन्यथा प्रायश्चित्तभाक् स्यात्, तस्माद्भगवदाज्ञामनुवर्त्तमानेन कर्मनिर्जरालाभलिप्सया ग्लाने समुत्पन्ने मायाविप्रमुक्तेन यत्र कुत्रापि स्थितेन त्वरितमागन्तव्यमेवं कुर्वता साधर्मिकवात्सल्यं कृतं भवति, आत्मा च निर्जराद्वारे नियोजितो भवति, तत्राशक्तत्वमप्रशस्यभाषाऽपमानं लुब्धत्वमुद्भाव्य प्रतिबन्धयतः प्रायश्चित्तं स्यादिति ॥