________________
५६०
तत्त्वन्यायविभाकरे
છે’–આવો વિચાર, અને મૂચ્છની હાજરીમાં અવયવોની રચનાની શોભા માટે શરીર આદિનું પાલન કરે ! ત્યારબાદ આશ્રવમાં પડે! આથી આ અપવિત્ર ચામડી-માંસ આદિથી ભરપૂર-ક્ષણભંગુર શરીર આદિ છે. તે ધર્મના સાધન માટે જ આહાર આદિથી ઉપગ્રહ(સહાય-ઉપકાર-પોષણ)થી યોગ્ય છે, માટે મૂર્છાથી નિવૃત્તિ કરવી જોઈએ. તથાચ ગ્રહણ કરેલા પણ શરીર-ધર્મોપકરણ આદિમાં “આ મારું છે'-આવા વિચારથી निवृत्ति, मे. 'मायिन्य' उपाय छे.
अथाऽऽकिञ्चन्येऽवस्थितस्य ब्रह्मचर्यपरिपालनमावश्यकमिति तत्स्वरूपमाविष्करोति - व्रतपरिपालनाय ज्ञानाभिवृद्धये कषायपरिपाकाय च गुरुकुलवासो ब्रह्मचर्यम् ।१८।
व्रतेति । व्रतमब्रह्मनिवृत्तिरूपं मैथुनवर्जनं तत्परिपालनाय गुरुकुले वासो ब्रह्मचर्यमुच्यते, एतेन स्वातंत्र्येणावस्थानं प्रतिक्षिप्तम्, सदा गुर्वधीनेन गुरुनिर्देशावस्थायिना च भवितव्यम् । गुरुकुलवासात्मकब्रह्मचर्यस्य फलान्तरमप्याह – ज्ञानाभिवृद्धये कषायपरिपाकाय चेति, तत्र वासे ज्ञानवृद्धिर्भवति दर्शने चारित्रे च स्थैर्यं भवति तथा क्रोधादीनां परिणतेरुपशमः क्षयोपशमः क्षयो वा भवति । गुरुरहितस्य हि परिणामवैचित्र्याद्विकथादिदोषादसज्जनसम्पर्कादसत्क्रियासङ्गादनुस्रोतोगामित्वदोषात्सद्य एव मोक्षमार्गाद्मशः स्यात् । तस्मादाप्राणिताद्गुरुकुलवासः श्रेयानिति भावः । गुरुकुले वसतां ह्याप्तोपदेशपालनाद्यथाशक्ति ज्ञानाभिवृद्धिद्वारा चरणं परिपूर्ण सम्पद्यते । ननु गुरुकुले वसतोऽपि कदाचित्तदविकलं न दृश्यत इति चेन्न ग्लानाद्यवस्थासु प्रत्युपेक्षणादिबाह्यसदनुष्ठानासद्भावेऽपि सद्गुरूपदेशश्रवणसञ्जनितसंवेगेन तद्भावात् । ननु श्रमणध प्रकान्ते क्षमादीनामेवोत्कर्षणं युक्तं तद्रूपत्वात्तस्य, किं गुरुकुलवासोत्कर्षणेन, आश्रयमात्रत्वात्तस्येति चेन्न गुरुकुल एव सम्यग्विनीततया स्थितानां यतीनां साधुधर्मतया सम्मतानां क्षमादीनां प्रकर्षतो निष्पत्तेः, तद्वासत्यागे चैतेषां सुष्ठ विशुद्धिर्न भवेदेव, इतरेतरस्नेहरोषविषादादीनां भावादेषणायाश्च बाधसम्भवादपरिशुद्धिरेव स्यात्, तथा न केवलं क्षमादीनामविशुद्धिरपि तु गुरुकुलवासत्यागिनो नियमेन क्षान्त्याद्यभाव एव, कषायोदयात् । ततो ब्रह्मचर्यं न भवति तत्त्वत्यागे तदुप्तिरपि न भवति, यतिजनसहायतायामेव ब्रह्मचर्यगुप्तित्वात्, ततः शेषाण्यपि नेति समस्तव्रतभङ्गः स्यात् । अत एवैकाकित्वे बहुतमदोषाः शास्त्रे श्रूयन्ते 'एगस्स कओ धम्मो' इत्यादि । गुरुविषयकवैयावृत्त्येन जिनप्रवचनार्थप्रकाशनगच्छपालनादौ सहायकरणतः कर्मक्षयलक्षणं महाफलं गुरुकुलवासिनो भवति, अन्यथा सर्वदा वैयावृत्त्यतपोज्ञानचारित्रविशुद्धयादीनां गुरुसंसर्गसाध्यगुणानां व्याघातादिप्राप्तेः । शोभनगुणान्तरायान्महान् दोषोऽपि स्यात्, तथा च तत्र वसन् गुर्वादेशं प्रतीक्षमाणस्समीपवत्यैव स्यात् । इत्थंभूत एव ज्ञानदर्शनचरणेषु स्थिरतरो भवति यतोऽष्टादश