________________
५४९
तृतीयो भाग / सूत्र - १०, प्रथमः किरणे सतीति । प्रतीकारानुष्ठानेऽशक्तस्य दुर्मेधसो या सहिष्णुता तद्वयावर्त्तनाय सति सामर्थ्य इति, सहनशीलतेति, क्रोधोत्पत्तिनिमित्तानां सन्निधाने कालुष्याभावः उदितस्य वा क्रोधस्य नैष्फल्यापादनं विवेकादिभिः सा क्षमेति भावः । तथा च प्रतीकारानुष्ठाने शक्तस्यापि सहनपरिणामविशेषः क्षमेति भावः । तस्या उत्तेजकानाह सापराधिनीति, आत्मनि परप्रयुक्तं क्रोधनिमित्तं पश्यन्नपि निर्विवेकोऽयमेष एवास्य स्वभावो मूढत्वाद्यदेवं प्रयुके प्रत्यक्षं परोक्षं वाऽऽक्रोशवचनादिकम्, यद्वाऽयं मयि क्रोधनिमित्तं नोद्भावयेत्तदा मे कथं सहनशीलताजनितकर्मक्षयात्मको लाभः स्यादतोऽत्रायं महानुपकारीत्येवं विचिन्तयता क्षमितव्यमेवेति भावः । निरपराधिन्युपकारबुद्धिर्न क्षमाया महत्त्वापादिका किन्तु सापराधिनीति सूचयितुमपि शब्दः । अवश्यम्भावित्वेति, अपायेषु परप्रयुक्तप्रत्यक्षपरोक्षाक्रोशताडनमारणधर्मादिषु अवश्यम्भावित्वमतिः जन्मान्तरोपात्तस्य कर्मणो विपाकोऽयमवश्यम्भावी, यदाक्रोशताडनादिकं विदधाति केवलं निमित्तमात्रमेव परः कर्मोदयस्य । आख्यातो हि भगवता द्रव्यक्षेत्रकालभवभावापेक्षः कर्मणामुदयः स्वकृतञ्च कर्मानुभवितव्यमवश्यन्तया निकाचितं तपसा वा क्षपणीयमिति भावः । क्रोधादिष्विति, कषायपरिणतो विद्वेषी कर्म बध्नाति परं वा निहन्ति, अतः प्राणातिपातनिवृत्त्यात्मकव्रतभङ्गः स्यात्, तथा गुरूनधिक्षिपेत्, अतो ज्ञानादिनिर्वाणसाधनप्रहाणमवश्यम्भावि, क्रुद्धो वा प्रभ्रष्टस्मृतिम॒षाऽपि भाषेत विस्मृतप्रव्रज्याप्रतिपत्तिः परेणादत्तमप्याददीत, द्वेषात्परपाखण्डिनीषु ब्रह्मवतभङ्गमप्यासेवेत, तथा प्रद्विष्टस्सहायबुद्ध्या गृहस्थेष्वविरतेषु मूर्छामपि कुर्यात् उत्तरगुणभङ्गमप्याचरेदिति भावः । आत्मनिन्देति, आत्मनो निजस्य या निन्दा परप्रयुक्ता क्रोधादिनिमित्ता तस्याः श्रवणेऽपि स्वस्मिन् सदसत्त्वचिन्तयाऽविकृतमनस्कत्वं क्रोधादीनामुदयनिरोध उदितस्य वा विवेकबलेन नैष्फल्यापादनं क्षमोपकारीत्यर्थः । क्रोधादिनिमित्तानां स्वस्मिन् भावे हि किमत्रासौ मिथ्या ब्रवीति ? विद्यन्त एव मय्येते दोषा इति क्षमितव्यम्, अभावे च न सन्त्येव मयि दोषा अज्ञात्वैवैतान् दोषानयमुपक्षिपति, एवञ्चात्मानं निरपराधिनमवेत्य सुतरां क्षमितव्यमिति भावः । क्षमैवेति, आत्मनः क्षमैव मूलोत्तरगुणप्रवर्धकोऽसाधारणो धर्म इति बुद्ध्या प्राप्तेऽपि क्रोधादिनिमित्ते क्षमितव्यमिति भावः । ईदृशीनां भावनानां सत्त्वेऽवश्यम्भाविनी क्षमेत्याह क्षमायामुपकारिकेति, उपकारेण क्षान्तिरपकारेण क्षान्तिविपाकक्षान्तिर्वचनात्क्षान्तिर्धर्मात्क्षान्तिरिति पञ्चधा क्षान्तिर्भाव्या ॥