________________
५०४
तत्त्वन्यायविभाकरे
૦ પ્રતિપક્ષ સ્થાપનાહીન વિતંડાનું તો કથાપણું અયુક્ત જ છે. ખરેખર, વૈતંડિક, સ્વપક્ષને સ્વીકારી મંડન નહિ કરનારો અને જે યદ્વાદ્ધા વાદથી પરપક્ષનું જ ખંડન કરનારો, તે કેવી રીતે અવધાનયોગ્ય વચનવાળો થાય ! તેથી જલ્પ-વિતંડાના નિરાકરણથી વાદ જ એક કથાપણાને પામે છે. આમ સ્થિર થયું.
अङ्गनियमभेदप्रदर्शनार्थं वादे प्रारम्भकविशेषमाह - - ..... कथारम्भकस्तु जिगीषुस्तत्त्वनिर्णिनीषुञ्च ॥ ४ ॥
कथारम्भकस्त्विति । क्वचिज्जिगीषुः प्रथमं वादमारभते, क्वचिच्च तत्त्वनिर्णिनीषुः । तथा प्रतिवादिन्येकस्मिन्नपि प्रौढे बहवोऽपि सम्भूय विवदेरन् जिगीषवः, पर्यनुयुञ्जीरंश्च तत्त्वनिर्णिनीषवः । स च प्रौढतयैव तान् तावतोऽप्यभ्युपैति प्रत्याख्याति तत्त्वञ्चाचष्टे । क्वचिदेकमपि तत्त्वनिर्णिनीषु बहवोऽपि प्रतिबोधयेयुः । अत एव तत्त्वनिश्चयसंरक्षणं जल्पवितण्डयोरेव फलं, वादस्य तु तत्त्वनिर्णय एव, तत्र जिगीषोरनधिकारादिति प्रयुक्तम् । वादस्याविजिगीषुविषयत्वासिद्धेः, वादो नाविजिगीषुविषयो निग्रहस्थानवत्त्वात् जल्पवितण्डावदित्यनुमानाच्च । न च वादे सतामप्येषां निग्रहबुद्धयाऽनुद्भावनान्न विजिगीषाऽस्ति, किन्तु तत्र निवारणबुद्ध्यैवोद्भावनमिति वाच्यम् जल्पवितण्डयोरपि तथोद्भावननियमप्रसङ्गात् । तत्त्वाध्यवसायसंरक्षणस्य छलजातिनिग्रहस्थानैर्वस्तुतः कर्तुमशक्यत्वाच्चेति ॥ અંગના નિયમના ભેદ દર્શાવવા માટે વાદમાં પ્રારંભકના બે ભેદને કહે છે.
વાદમાં પ્રારંભકપણું भावार्थ - "5थानो माम तो गीषु भने तत्त्वनिनाषु छ." વિવેચન- ક્વચિત્ જિગીષ પહેલાં વાદનો આરંભ કરે છે અને ક્વચિત્ તત્ત્વનિર્ણિનીષ પહેલાં વાદનો આરંભ કરે છે, માટે આ બંને પ્રારંભક થાય છે.
१. वक्त्राऽभिप्रायेण प्रयुक्तस्य शब्दस्याभिप्रायान्तरकल्पनया तन्निषेधनं छलम् । यथा नवकम्बलोऽयमिति नूतनकम्बलाभिप्रायेणोक्ते परः कुतोऽस्य नव कम्बलाः दृश्यते ह्येक एवेति प्रत्यक्षविरोधमुद्भावयति, एवमेवान्यत्रापि भाव्यम् । वादिना सम्यग्धेतौ हेत्वाभासे वा प्रयुक्ते झटिति तद्दोषतत्त्वाप्रतिभासे हेतुप्रतिबिम्बनप्रायं साधर्म्यतो वैधर्म्यतो वा यदि प्रयुंक्ते किमपि स जातिः, यथाऽनित्यश्शब्दः कृतकत्वाद्घटवदिति प्रयोगे कृते साधयेणैव प्रत्यवस्थानं यथा नित्यश्शब्दो निरवयवत्वादाकाशवदिति, न चास्ति विशेषहेतुर्घटसाधात्कृतकत्वादनित्यश्शब्दो न पुनराकाशसाधर्म्यान्निरवयवत्वात्स नित्य इति । तत्रैव वैधhण प्रत्यवस्थानं यथा तत्रैव प्रतिहेतुर्वैधर्येण प्रयुज्यते अनित्यं हि सावयवं दृष्टं यथा घटादीति, न चास्ति विशेषहेतुर्घटसाधात् कृतकत्वादनित्यश्शब्दो न पुनस्तद्वधर्मानिरवयवत्वान्नित्यमितीति । वादकाले वादी प्रतिवादी वा येन निगृह्यते तन्निग्रहस्थानं, हेत्वाभासादिबहुविधं, गौरवात्तन्नात्र प्रदर्श्यते, अन्यत्र विलोकनीयमिति ॥