________________
तत्त्वन्यायविभाकरे प्रमाणप्रमेयापलापिनः प्रत्युभयं विधेयम्, स्वदर्शनश्रद्धालून् प्रति त्वनुवाद्यमिति । एवमेव सर्वत्र लक्ष्यलक्षणभावोऽवसेयः । यथावस्थितार्थपरिच्छेदे च ज्ञानमेव साधकतमं न तु सन्निकर्षादि, साधकतमन्तु यत्र प्रमात्रा व्यापारिते सत्यवश्यं कार्यस्योत्पत्तिस्तदभावेऽनुत्पत्तिरेव तत्र तत्, यथा कुठारश्छेदने । न च तथा सन्निकर्षादि, नभसि नयनसन्निकर्षसम्भवेऽपि प्रमानुत्पत्तेः, तदभावेऽपि प्रातिभप्रत्यक्षाणामार्षसंवेदनविशेषाणाञ्च समुद्भवात् । न च नभसि रूपाभावान प्रमोत्पत्तिरिति वाच्यम्, रूपस्य प्रत्यक्षानुपपत्तिप्रसङ्गात् नहि तत्र रूपस्ति । न च तदाधारभूते द्रव्ये रूपान्तरमस्तीत्यतो नानुपपत्तिरिति वाच्यम्, त्वयैकत्र व्याप्यवृत्तिसजातीयगुणद्वयानङ्गीकारात् । न चावयवरूपमवयविरूपोपलब्धौ कारणमिति वाच्यम्, त्र्यणुकनिष्ठरूपप्रत्यक्षानुपपत्तेः, द्वयुणुकरूपस्यानुपलम्भेन सहकारित्वासम्भवादिति ॥ निर्णयत्वमात्रोक्तौ निर्विकल्पकप्रत्यक्षस्य बौद्धैः प्रामाण्यतयोक्तस्य प्रमाणत्वापत्तिरतो यथार्थनिर्णयत्वमुक्तं, अर्थनिर्णयत्वमात्रस्य विपर्ययानध्यवसायादौ गतत्वेन तद्वारणाय यथेति, अत एव चानन्तधर्मात्मकवस्तुनिष्ठैकधर्मविषयकज्ञानस्यापि व्युदासोऽनन्तधर्मात्मकवस्तुनिष्ठानन्तधर्मविषयकज्ञानस्यैव यथार्थनिर्णयरूपत्वात् । निर्णयशब्देन च संशयव्युदासः । समग्रेण चार्थोपलब्धिहेतुत्वानधिगतार्थगन्तृत्वादीनां परोक्तलक्षणानां व्युदासः । अर्थोपलब्धि प्रति परम्परया हेतुत्वेऽञ्जनादीनां प्रमाणत्वापत्तेः, अनन्तरभूतेन्द्रियस्यैव हेतुत्व उपयोगात्मकेन्द्रियातिरिक्तस्येन्द्रियस्य प्रमाणत्वासम्भवात्, व्यवधानात् । प्रत्यभिज्ञादावनधिगतार्थगन्तृत्वस्याभावेन प्रमाणत्वानुपपत्तेस्तस्याधिगतार्थगन्तृत्वादिति तात्पर्यम् ॥
પ્રમાણ શી વસ્તુ છે? આના જવાબમાં કહે છે કેभावार्थ – “यथार्थ निय1२४ प्रभावाय छे."
- १. फलायोगव्यवच्छिन्नं कारणं करणमिति भावः । २. यथा घटस्य प्रत्यक्षे जननीये विषयातिरिक्तं रूपं कारणमपेक्षितं तथा रूपस्य प्रत्यक्षे जननीये विषयातिरिक्तं रूपमपेक्षणीयं स्यात्तथा च घटे रूपप्रत्यक्षे रूपान्तरसत्त्वाभ्युपगमस्त्वया कर्तुं न शक्यते, एकस्मिन् द्रव्ये व्याप्यवृत्तेस्सजातीयस्य गुणद्वयस्यानभ्युपगमेन तव सिद्धान्तव्याघात इति भावः, तैरव्याप्यवृत्तिसंयोगद्वयाद्यभ्युपगमेन व्याप्यवृत्तीत्युक्तं, स्वाधिकरणावृत्तिस्वाभावकत्वं तदर्थः । नास्ति हि रूपाधिकरणे रूपाभावः । घटे व्याप्यवृत्तिरूपरसयोरभ्युपगमात्सजातीयेति, तत्त्वञ्च गुणत्वव्याप्यजात्या, तथा च रूपरसयोस्तथा साजात्याभावान्न क्षतिः ॥३. निर्णयत्वं हि निश्चयत्वं संशयभिन्नज्ञानत्वं वा, तच्च बौद्धाभ्युपगते निर्विकल्पके प्रकारतादिरहिते वर्तत इति भवत्यतिव्याप्तिरतो यथार्थनिर्णयत्वमुक्तं, तथा च प्रकारतादिविशिष्टमिदं न निष्प्रकारके निर्विकल्पकेऽस्तीति भावः । नन्वर्थनिर्णयत्वमात्रोक्तावपि तद्वारणसम्भवाद्यथेति पदं निरर्थकमित्याशंक्याहार्थनिर्णयत्वमात्रस्येति । तथा च यद्वस्तु येनैव प्रकारेण वर्तते तेनैव प्रकारेण तन्निश्चयो यथार्थनिर्णयः, तेन न्यूनप्रकारकत्वे विपरीतप्रकारकत्वे वा न प्रमाणत्वमिति भावः ॥