________________
द्वितीयो भाग / सूत्र - १२, नवमः किरणे
४४५ इत्यादावुपसर्गभेदेन चार्थभेदं प्रतिपादयति शब्दनयः, कालादिप्राधान्यात्, अभेदं पुनर्न तिरस्करोति, अपि तु गौणीकरोति । पर्यायभेदे तु नार्थभेदमभ्युपैति नयोऽयम् ॥१२॥ ___ यथेति । सुमेरुभेदमिति, प्रतिपादयतीत्यग्रेतनेन सम्बद्ध्यते एवमग्रेऽपि । भूतभविष्यद्वर्त्तमानरूपकालत्रयभेदेन सुमेरोर्भेदं शब्दनयः प्रतिपद्यते, कालभेदादप्यर्थस्याभेदप्रतिज्ञाने रावणशंखचक्रवर्त्तिनोरप्यतीतानागतकालयोरेकत्वापत्तेरिति भावः । कारकभेदप्रयुक्तार्थभेदस्य दृष्टान्तमाह करोतीति, अत्र कारकयोः कर्तृकर्मणोभेदाद् घटस्य भेदः, जलाहरणाद्यर्थक्रियानिरूपितकर्तृत्वस्य कुम्भकारनिरूपितकर्मत्वस्य च भानात् । न च यः कर्ता स एव कर्मातिप्रसङ्गात् तस्मात्कर्तृकर्मस्वभावौ घटस्य भिन्नावभ्युपगमनीयाविति भावः । लिङ्गभेदप्रयुक्तार्थभेदमुदाहरति पुष्यस्तारका इति, पुंस्त्रीलिङ्गयोर्भेदेनार्थभेदः, अन्यलिङ्गवृत्तेश्शब्दस्यान्यलिङ्गभेदलक्षणेन वैधयेणार्थभेदस्य कान्तः कान्तेत्यादिषु स्पष्टमनुभवादिति भावः । संख्याभेदप्रयुक्तार्थभेदं निदर्शयति आपोऽम्भ इति अत्र बहुत्वैकत्वसंख्ययोर्भेदेन जलस्य भेदं शब्दनयः प्रतिजानीतेऽन्यथा पटस्तन्तव इत्येत्राप्येकत्वप्रतीत्यापत्तेः संख्याभेदाविशेषात् । पुरुषभेदनिबन्धनार्थभेदनिदर्शनमादर्शयति एहि मन्य इति, अत्र युष्मदस्मदाख्ययोः पुरुषयोर्भेदादर्थस्य भेदं शब्दनयः स्वीकुरुते अन्यथाऽहं पचामि त्वं पचसीत्यादावपि पुरुषभेदेऽपि एकार्थत्वप्रसङ्गात् । उपसर्गभेदनिदानार्थभेददृष्टान्तमाविष्करोति सन्तिष्ठत इति, अत्राप्युपसर्गभेदादर्थभेदं मनुते शब्दनयो विहरत्याहरतीत्यादाविव । अन्यथा तिष्ठति प्रतिष्ठत इत्यादावपि स्थितिगतिक्रिययोरभेदप्रसङ्गः स्यादिति भावः । अयं तत्र तत्र तेषां प्राधान्यमेव कालादिकमाश्रित्य स्वीकरोति न तु द्रव्यरूपतयाऽनुगामिनमभेदं न्यक्कुरुते, अन्यथा दुर्नयत्वापत्तेरित्याह कालादिप्राधान्यादिति । लिङ्गादिभेदेनार्थभेदाभ्युपगमादेवर्जुसूत्रादस्य विशेषता ख्यापिता तथापि समभिरूढाद्विशेषं द्योतयितुमाह पर्यायभेदे त्विति, घटकुम्भादिपर्यायशब्दभेदे तु नार्थभेदोऽस्य सम्मतः, तमभिरूढस्य तु स इष्ट इत्यनयोर्वैलक्षण्यमिति भावः ॥
ક્રમથી કાળ આદિના દૃષ્ટાન્નોનું ઉપદર્શન ભાવાર્થ – “જેમ સુમેરૂપર્વત હતો, છે અને હશે. આવી રીતે કાળના ભેદથી સુમેરૂના ભેદને શબ્દનય માને છે. કુંભ, જલ આહરણ આદિ ચેષ્ટાને કરે છે, કુંભારવડે કુંભ કરાય છે, ઇત્યાદિમાં કર્તા-કર્મરૂપ ___१. सध्या हि यावन्तश्शब्दाः कस्मिंश्चिदर्थे प्रवर्त्तन्ते तेषां सर्वेषामपि शब्दानामयं नय एकमर्थमभिप्रैति, यथा घटकुटकलशकुम्भादयः एभिर्हि एक एवार्थः प्रतीयते, यथा शब्दाव्यतिरेकोऽर्थस्य तथैव तस्यैकत्वं वा शब्दभेदेन नैकत्वं वा प्रतिपादनीयं, न च घटकुटकलशादयः पर्यायशब्दा विभिन्नार्थवाचितया कदाचन प्रतीयन्ते, तेभ्यस्सर्वदा एकाकारपरामर्शोत्पत्तेः, अस्खलद्वृत्तितया तथैव व्यवहारदर्शनात् । तस्मादेक एव पर्यायशब्दानामर्थ इति भावः ॥