________________
तत्त्वन्यायविभाकरे च्छन्नरवेर्मन्दप्रकाश इवान्तरालस्थकटकुट्याद्यावरणविवरप्रवेशात् । न च केवलज्ञानावरणेन बलीयसाऽऽवरीतुमशक्यस्यानन्ततमभागस्य दुर्बलेन मतिज्ञानावरणादिना नावरणसम्भव इति वाच्यम्, कर्मणस्स्वावार्यावारकतायां सर्वघातिरसस्पर्धकोदयस्यैव बलत्वात्तस्य च मतिज्ञानावरणादिप्रकृतिष्वप्यविशिष्टत्वात् । तथा च सर्वघातिरसस्पर्धकवन्मतिज्ञानावरणादिक्षयोपशमजनितं मतिश्रुतावधिमनःपर्यवभेदाच्चतुर्विधं क्षायोपशमिकं ज्ञानं पञ्चमञ्च क्षायिकं केवलज्ञानमिति पञ्च प्रकारा ज्ञानस्येति भावः । मतिश्रुतयोस्स्वाम्येकत्वान्नानाजीवापेक्षया द्वयोस्सार्वदिकत्वादेकजीवापेक्षया चोभयोरपि निरन्तरसातिरेकषट्षष्टिसागरोपमस्थितिकत्वादिन्द्रियमनसोस्स्वस्वावरणक्षयोपशमस्य च तुल्यत्वात् सर्वद्रव्यादिविषयकत्वात्परोक्षत्वान्मतिश्रुतसत्त्व एव चावध्यादीनां प्राप्यमाणत्वाच्च तयोः प्रथममुपादानं, तत्रापि श्रुतस्य मतिपूर्वकत्वात् इन्द्रियानिन्द्रियनिमित्तकस्य सर्वस्यैव मतिज्ञानत्वात्परोपदेशत्वागमवचनत्वरूपविशिष्टतामादायैव श्रुतस्य पार्थक्यवर्णनेन मतिविशेषत्वात्प्राधान्येन मतेरुपन्यासस्ततश्श्रुतस्य । ततो मतिश्रुताभ्यां नानाजीवापेक्षयैकजीवापेक्षया च कालसाधर्म्यान्मतिश्रुतयोमिथ्यात्वोदयेऽज्ञानवदवधेरपि तथात्वात्स्वामिसाधर्म्यात्कस्यचित्त्रयाणाममीषां युगपल्लाभसम्भवेन लाभसाधर्म्याच्च ततोऽवधेरुपन्यासः, अवधिमनःपर्यवयोश्छद्मस्थेनाप्यमानत्वात्पुद्गलमात्रविषयकत्वात्क्षायोपशमिकभाववृत्तित्वात् प्रत्यक्षत्वादिसाम्याच्च ततो मनःपर्यवस्योपन्यासः, उत्तमत्वाद्विशिष्टचारित्रस्वामिकत्वादपरज्ञानावसानलाभाच्चान्ते केवलज्ञानस्योपन्यासो बोध्यः ॥
પ્રથમ કિરણ અવસર પ્રાપ્ત સમ્યગુજ્ઞાનનો વિભાગ કરે છે. भावार्थ – “भति-श्रुत-अवषि-मन:पर्यव-34ल, शानो छ." विवेयन - भतिशान-श्रुतिशान-पान-मन:पqान-3qान, मेवो मर्थ छ. 'ज्ञानानि' ઇતિ. અહીં બહુવચન એક એકમાં જ્ઞાનપણું જણાવવા માટે છે. વળી જ્ઞાન, આત્માનો સ્વ-પરપ્રકાશક,
१. मतिज्ञानस्यैवाऽऽभिनिबोधिकज्ञानमिति नामान्तरम्, अभिमुखं योग्यदेशावस्थितं नियतमर्थमिन्द्रियमनोद्वारेणात्मा येन परिणामविशेषेणावबुध्यते स परिणामविशेषो ज्ञानापरपर्याय आभिनिबोधिकम् । तद् द्विविधं श्रुतनिश्रितमश्रुतनिश्रितञ्चेति । शास्त्रपरिकर्मितमतेरुत्पादकाले शास्त्रार्थपर्यालोचनमनपेक्ष्यैव यदुपजायते मतिज्ञानं तच्छुतनिश्रितमवग्रहादि । सर्वथा शास्त्रसंस्पर्शरहितस्य तथातथाविधक्षयोपशमभावत एवमेव यथावस्थितवस्तुसंस्पर्शि मतिज्ञानं यदुपजायते तदश्रुतनिश्रितं, औत्पातिकीवैनयिकीकर्मजापारिणामिकीभेदभिन्नमिति ॥ २. मतिश्रुते अप्राप्यावध्यादीनामप्राप्यमाणत्वादिति भावः ॥ ३. पूर्वमवग्रहादिमतिज्ञानप्रवृत्ति विना श्रुतप्रवृत्तेरभावादिति भावः ॥४. अतीतानागतवर्तमाननिःशेषज्ञेयस्वरूपावभासित्वादुत्तमत्वमिति भावः ॥