________________
अथ द्वितीयो भाग
प्रथमः किरणः ॥
अथावसरप्राप्तं सम्यग्ज्ञानं विभजते - मतिश्रुतावधिमनःपर्यवकेवलानि ज्ञानानि ॥१॥
मतीति । मतिज्ञानं श्रुतज्ञानावधिज्ञानं मनःपर्यवज्ञानं केवलज्ञानमित्यर्थः । ज्ञानानीतिबहुवचनमेकैकस्मिन् ज्ञानताख्यापनाय । ज्ञानं चात्मनस्स्वपरावभासकोऽसाधारणो गुणः कथञ्चिदभिन्नः कथञ्चिद्भिनंश्च । स चाम्बुधरपटलपरिमुक्तस्य दिनमणेरिवापास्तसमस्तावरणस्य जीवस्य स्वभावभूतः केवलज्ञानव्यपदेशभाग्भवति । सकलघातिकेवलज्ञानावरणेन कात्स्येन ज्ञानस्यावरणासम्भवात् तदानीं योऽयं मन्दप्रकाशः स केवलज्ञानावरणावृतस्य भवति तस्यैव भेदा मत्यादयश्चत्वारः । तादृशे मन्दप्रकाशे केवलज्ञानावरणस्यैव हेतुत्वं, स्पष्टप्रकाशप्रतिबन्धकस्यापि तस्य तत्र हेतुत्वात्, दृष्टञ्चोत्कटेऽभ्राद्यावरणे स्पष्टप्रकाशप्रतिबन्धकत्वं मन्दप्रकाशजनकत्वञ्च । अत एव न मतिज्ञानावरणक्षयादिना मतिज्ञानाद्युत्पादनप्रसङ्गः । सोऽयं ज्ञानस्वभावः केवलज्ञानावरणेनावृतोऽपि अनन्ततमभागावशिष्टोऽनावृत एव सामान्यत एकोऽपि अनन्तपर्यायकिर्मीरितमूतिर्मन्दप्रकाशनामधेयो भवति । स चापान्तरालावस्थितमतिज्ञानाद्यावरणक्षयोपशमसम्पादितं नानात्वं भजते, घनपटला
१. जीवेन ज्ञानस्यात्यन्तभेदेऽन्यज्ञानेनान्यस्य विषयपरिच्छेदाभाववत् स्वात्मनोऽपि तत्र स्याद्भिन्नत्वाविशेषात् । न च समवायेन यत्रैव ज्ञानं समवेतं तत्रैव भवति विषयपरिच्छेद इति वाच्यम्, समवायस्यैकत्वेन नित्यत्वेन च वृत्तेरविशेषात् । सर्वथा चाभेदे गुणग्रहणेन गुणिनोऽपि गृहीतत्वाद्धरिततरुतरुणशाखाविसररन्धोदरान्तरतः किमपि शुक्लं पश्यन् किमियं पताका किमियं बलाकेत्येवं प्रतिनियतगुणिविषयकसंशयो न स्यादिति भावः ॥