________________
द्वितीयो भाग / सूत्र -८, नवमः किरणे
४३१ પણ સેશ્વર અને અનીશ્વરનો ભેદ માનેલો છે. સેશ્વરપક્ષમાં પણ કર્મસાપેક્ષત્વ-અનપેક્ષપણાથી ભેદનો સ્વીકાર છે. કેટલાકોએ સ્વભાવ-કાળ-યાદચ્છિક વાદો માનેલા છે. તેઓમાં પણ સાપેક્ષત્વ-અનપેક્ષત્વના સ્વીકારથી ભેદની વ્યવસ્થા સ્વીકારેલી જ છે તથા કારણ નિત્ય છે-કાર્ય અનિત્ય છે, એમ બે વસ્તુ કેટલાકોએ માનેલ છે. ત્યાં પણ કાર્ય સ્વરૂપને નિયમો છોડે છે અથવા નથી છોડતું આવા ભેદનો સ્વીકાર છે. એ પ્રમાણે મૂર્નોથી જ મૂર્તિ આરંભાય છે. મૂર્વોથી અમૂર્ત, અમૂર્તીથી મૂર્ત, ઇત્યાદિ અનેક પ્રકારે પ્રતિપત્તાના અભિપ્રાયથી અનેક પ્રકારે નિગમન હોવાથી નૈગમ અનેક ભેદવાળો છે.
अथ सङ्ग्रहं लक्षयति -
स्वव्याप्ययावद्विशेषेष्वौदासीन्यपूर्वकं सामान्यविषयकाभिप्रायविशेषस्सङ्ग्रहः । स द्विविधः परापरभेदात् । परसामान्यमवलम्ब्य विधायौदासीन्यं तद्विशेषेषु अर्थानामेकतया ग्रहणाभिप्रायः परसङ्ग्रहः । यथा विश्वमेकं सदविशेषादिति । अनेन वक्रभिप्रायेण सत्त्वरूपसामान्येन विश्वस्यैकत्वं गृह्यते, एवं शब्दानामप्रयोगाच्च विशेषेषूदासीनता प्रतीयते । अपरसामान्यमवलम्ब्य तथाभिप्रायोऽपरसङ्ग्रहः । यथा धर्माधर्माकाशपुद्गलजीवानामैक्यं, द्रव्यत्वाविशेषादिति । अनेनाप्यभिप्राय विशेषेण द्रव्यत्वरूपापरसामान्येन धर्मादीनामेकत्वं तद्विशेषेषूदासीनत्वञ्च गृह्यते ॥ ८ ॥
स्वव्याप्येति । स्वं महासामान्यं सत्त्वं तव्याप्या यावन्तो विशेषाः द्रव्यत्वादयः तेष्वौदासीन्यपूर्वकं परस्परं ताननिराकुर्वन् सत्तारूपसामान्यविषयको द्रव्यत्वादिरूपसामान्यविषयको वाऽभिप्रायविशेषस्स सङ्ग्रह इत्यर्थः । सामान्यमात्राभ्युपगमप्रवणैकदेशबोधत्वं लक्षणम् । परापरसामान्योभयग्राहित्वन्तु न लक्षणं प्रत्येकग्राहिण्यव्याप्तेः प्रत्येकग्राहित्वमपि न लक्षणमननुगमात्, अयं हि सङ्ग्रहो मन्यते ननु भावलक्षणसामान्याद्वयतिरिच्यमानमूर्तयो विशेषा अव्यतिरिच्यमाना वा, नाद्यः पक्षो निःस्वभावतापत्तेः, भावंव्यतिरेकित्वात्, गगनारविन्दवत् । न द्वितीयो भावमात्रत्वापत्तेः, तथा हि भावमात्रं विशेषास्तदभिन्नत्वात् यद्यतोऽभिन्नं तत्तदेव, यथा भावस्यैव स्वरूपम्, अभिन्नाश्च विशेषा अतस्तद्रूपा एव । ननु च यदि भावमात्रमेव तत्त्वं तदा तस्य सर्वत्राविशेषाद्य एते प्रतिप्राणि प्रसिद्धा स्तम्भेभकुम्भाम्भोरुहादिविशिष्टवस्तुसाध्यव्यवहारास्ते सर्वेऽपि प्रलयमापद्येरन् अतो विशेषा अपि विविक्तव्यवहारहेतवोऽभ्युपगन्तव्याः मैवम्, व्यवहारस्याप्यनाद्यविद्याबलप्रवर्तितत्वात् तेन पारमार्थिकप्रमाण___ १. सङ्ग्रहमतेनाशेषविशेषतिरोधानप्रकारमादर्शयति नन्विति । २. भिन्नत्वे भावलक्षणतो विशेषाणां स तस्यैवेत्यत्र नियामकाभावेन भावस्वभावशून्यत्वान्निःस्वभावत्वं स्यादित्याशयेनाह भावव्यतिरेकित्वादिति ॥