________________
३९८
तत्त्वन्यायविभाकरे पदार्थस्य बहिरवभासनं हि उपस्थानं, चेतसि च न सर्वं परिस्फुरतीति भावः । कथं न विश्वस्य स्मरणमित्यत्राह स्मरणञ्चेति, सादृश्यविशिष्टार्थदर्शनेन हि स्मरणं भवति सादृश्यञ्च चाक चिक्यादिकं शुक्तिकारजतयोरेव न विश्वस्य, अतस्समानधर्मदर्शनेन स्मरणं रजतस्य, तेन च रजतमेवोपस्थापितं न विश्वमिति भावः, एवञ्च संवेदनात्पृथम्भूतस्य पदार्थस्यात्र परिस्फुरणानात्मख्यातिरत्यन्तासतः प्रतिभासाभावाच्च नासत्ख्यातिरिति ज्ञेयम् । ननु रजतमिदमित्यादिज्ञानस्य प्रत्यक्षरूपत्वेन स्मरणानपेक्षत्वात्कुतस्तदुपस्थापितार्थावभासित्वमिति चेन, अस्य प्रत्यक्षाभासत्वेनैवंविधपर्युनुयोगानास्पदत्वात् ॥
अत्र वृद्धाः, संवृतस्वाकारा समुपात्तकलधौताकारा शुक्तिकैवालम्बनं तज्ज्ञानस्य, त्रिकोणत्वादिस्वविशेषग्रहणाभावात्, चाकचिक्यादिसमानधर्मदर्शनजन्यरूप्यस्मरणारोपितरूप्याकारत्वाच्च । न च रजताकारज्ञानस्य कथं शुक्तिका विषय इति वाच्यम्, अङ्गुल्यादिना निर्दिश्यमानस्य कर्मतया ज्ञानजनकस्यैवालम्बनत्वात्, अन्यथा प्रकृतज्ञानेन साऽनपेक्षणीया भवेत् । अपेक्षणीया च सा, अन्यथा तदसन्निधानेऽपि प्रकृतज्ञानोत्पादापत्तेः, उत्तरकालं तद्विषयक प्रत्यभिज्ञानस्य बाध्यबाधकभावस्य चानुपपत्तेश्च भिन्नविषययोस्तदसम्भवात् । ननु ज्ञानानां कोऽयं बाध्यबाधकभावः, सहानवस्थानं वा वध्यघातकभावो वा विषयापहारो वा फलापहारो वा, नाद्यः, सम्यक्प्रत्ययेनेव मिथ्याप्रत्ययेनापि सम्यक्प्रत्ययस्य बाधापत्तेः सहानवस्थानाविशेषात् । अत एव न द्वितीयः, उभयोर्वध्यघातकभावाविशेषात् । नापि तृतीयो विषयस्य प्रतिपन्नत्वेनापहारासम्भवात् । प्रतिपन्नस्याप्रतिपन्नत्वबोधकतया बाधकज्ञानस्यानुत्पादाच्च । नापि चरमः, उपादानादिज्ञानस्य प्रमाणफलस्योत्पन्नत्वेनापहरणासम्भवात्, नहि यदुत्पन्नं तदनुत्पन्नमित्यभिदधाति बाधकः । किञ्च तुल्यविषयोर्बाध्यबाधकभावो भिन्नविषययोर्वा स्यात् । नाद्यः धारावाहिज्ञानानां बाध्यबाधकभावप्रसङ्गात् । नान्त्यः, घटपटज्ञानयोरपि बाध्यबाधकभावापत्तेरिति चेदुच्यते प्रतिपन्नविषयस्यासत्त्वप्रतिपादकत्वेन विषयापहारकस्यैव बाधकत्वमिति । तत्रापीदानीमुपनतस्यैवासत्त्वं न ख्याप्यते किन्तु तदैव तस्यासत्त्वम्, न च प्रथमज्ञानेन तदानीं तस्य सत्त्वस्य गृहीतत्वेन तदैव तत्र बाधकेनासत्त्वस्य ख्यापने स्वरूपेणैव तस्य सदसत्त्वापत्तिविरुद्धा प्रसज्यत इति वाच्यम्, पूर्वप्रतिपन्नाकारोपमर्दद्वारेण बाधक प्रत्ययोत्पत्तेः, यन्मया तदा रजतमिति प्रतिपन्नं तद्रजतं न भवत्यन्यदेव तद्वस्त्विति, न च
१. यन्मया पूर्वं रजतत्वेन ज्ञातं तदेवेदं शुक्तिकाशकलमिति प्रत्यभिज्ञानं, नेदं रजतमपितु शुक्तिकेति ज्ञानस्य भिन्नविषयकत्वेन बाधकत्वमपि न स्यादिति भावः ॥