________________
द्वितीय भाग / सूत्र - २, अथाष्टमः किरणे
३९७
સમાધાન – દોષના અભાવકાળમાં પણ તેથી શુક્તિમાં ‘આ ચાંદી છે’ આવો પ્રસંગ આવશે ! અને દોષની પણ અપેક્ષામાં ઇદંઅંશાવચ્છેદથી બીજું અજ્ઞાન અને ઉદાસીન(ઘટાદિ)નું હેતુપણું નિવારી શકાય તેવું નથી. માટે આ બધું વજૂદ વગરનું છે.
ननु तर्हि रजतमिदमिति भ्रान्तेरालम्बनं किम् ? रजतं वा स्याच्छुक्तिकाशकलं वा, नाद्यः, असत्ख्यातेरेव प्रसङ्गात् विषयभूतं हि रजतं तत्रासत् । न चान्यत्र सत एव तत्र भानान्नासत्ख्यातिरिति वाच्यम्, तथा सतीदं रजतमित्युल्लेखेन ज्ञानानुदयप्रसङ्गात् विप्रकृष्टे रजते चाक्षुषज्ञानासम्भवात् अन्यथा सर्वत्र चाक्षुषज्ञानोत्पादप्रसङ्गेन चक्षुषो जगन्मात्रग्राहकत्वापत्तेः । न द्वितीयः, रजताकारतयोत्पद्यमानत्वासम्भवात् । अन्याकारज्ञानस्यान्यविषयकत्वासम्भवात् । प्रतीतेश्शुक्तिकाविषयकत्वे भ्रान्तित्वासम्भवाच्च । न च रजतस्य प्रतिभासेऽप्यालम्बनमन्यदेवेति वाच्यम् शुक्तिकाया अप्रतिभासमानत्वेनालम्बनत्वायोगात्, न च सन्निहितत्वाद्भवत्यालम्बनमिति वाच्यम्, सन्निहितानामन्येषामप्यालम्बनत्वापत्तेः । तथा च यदेव प्रतीता - ववभासते तदेव रजतमालम्बनतया वाच्यं रजतञ्च तत्रासदेवेत्यसत्ख्यातिरेवाऽऽयाता न विपरीतख्यातिरित्याशङ्कायामाह -
-
अत्र हि स्मरणोपढौकितं रजतं तद्देशतत्कालयोरविद्यमानमपि दोषमहिम्ना सन्निहितत्वेन भासत इति विपरीतख्यातिरूपमिदम् । स्मरणञ्च चाकचिक्यादिसमानधर्माणां शुक्तौ दर्शनाद्भवति ॥ ३ ॥
अत्रेति । इदं रजतमिति भ्रान्तावित्यर्थः, रजतं भासत इति योजना, तेन रजतमेवालम्बनमित्युक्तम्, ननु तदानीमसत्ख्यातित्वं स्यादित्यात्राह तद्देशतत्कालयोरविद्यमानमपीति, यदा यस्मिन् तज्ज्ञानं भवति तद्देशतत्कालयोरविद्यमानमपीत्यर्थः, एतद्देशकालावच्छेदेनैव तस्याविद्यमानत्वं न तु देशान्तरे कालान्तरेऽपीति यावत् । तथा च देशान्तरादौ रजतस्य विद्यमानत्वं फलितम्, असत्ख्यातिवादो हि सर्वथाऽसतोऽर्थस्य प्रथने स्यान्न चात्र तथेति नासत्ख्यातिप्रसक्तिरिति भावः । ननु तत्राविद्यमानस्य रजतस्य नयनासन्निकृष्टत्वेन कथं भानं भवेदित्यत्राह दोषमहिम्नेति, तथा चातद्देशकालस्यापि रजतस्य दोषमहिम्ना सन्निहितत्वेन प्रतिभासनं नानुपपन्नमिति भावः । दोषमहिम्ना तथाभासमानत्वादेव प्रतीतेरस्या विपरीतख्यातिरूपतेत्याशयेनाह इति विपरीतख्यातिरूपमिदमिति, अस्मादेव हेतोरिदं ज्ञानं विपरीतख्यातिरूपमित्यर्थः । ननु दोषमहिम्ना यद्यतद्देशकालयोरपि भानं तर्हि जगतोऽपि ग्रहणं स्यादित्यत्राह स्मरणोपढौकितमिति, स्मरणेनोपस्थितं रजतमेव न तु विश्वं, चेतसि परिस्फुरितः