________________
द्वितीय भाग / सूत्र - १२ - १३, सप्तम: किरणे
३७५
પ્રમાણો ઉપાદેયભૂત કુંકુમ-ચંદનાદિમાં ઉપાદાનબુદ્ધિ-ગ્રહણબુદ્ધિ, હેયભૂત વિષ-અંગાર આદિમાં હાનબુદ્ધિ, ત્યાગબુદ્ધિ અને ઉપેક્ષણીયભૂત ઘાસ-ઢેફાં આદિમાં ઉપેક્ષાબુદ્ધિ પરંપરાએ ફળ છે.]
प्रमाणानां फलं प्रमाणाद्भिन्नमेवेति केचित् परे चाभिन्नमेवेति, तत्र तत्त्वजिज्ञासायां श्रोतुस्समुदितायां तदपनोदनायाह -
फलञ्च प्रमाणाद्भिन्नाभिन्नं, प्रमाणतया परिणतस्यैवाऽऽत्मनः फलत्वेन परिणमनात्तयोः कथञ्चिदभेदः, कार्यकारणभावेन प्रतीयमानत्वाच्च कथञ्चिद्भेदः ॥ इति समाप्तं प्रमाणनिरूपणम् ॥ १३ ॥
फलञ्चेति । प्रमाणफलञ्चेत्यर्थः चोऽनुक्तसमुच्चयार्थः । अनेन धर्मिनिर्द्देशः कृतः, प्रमाणाद्भिन्नाभिन्नमिति, साध्यधर्मनिर्देशः, प्रमाणफलत्वान्यथानुपपत्तेरिति हेतुः पूरणीयः । एकान्ततस्तयोर्भेदे प्रमाणफले इमे स्वकीये इमे च परकीये इति 'नैयत्यं न स्यात्, तस्मादेकप्रमातृतादात्म्येन तयोः कथञ्चिदभेदो वाच्य इत्याशयेनाह प्रमाणतयेति, यो ह्यात्मा प्रमाणाकारेण परिणमते स एव फलरूपतया परिणमते नान्यः, तथादर्शनात्, अन्यथा प्रमाणफलनियमो न भवेदेवेति भाव: । अस्तु तर्हि तयोरभेद एवेत्यत्राह कार्यकारणभावेनेति, कुठारच्छेदनयोरिव प्रमाणफलयोर्हेतुहेतुमद्भावेन प्रतीयमानत्वात्कथञ्चिद्भेदोऽपि स्यादर्थप्रकाशनादौ हि प्रमाणं साधकतमं कारणमर्थप्रकाशस्तत्साध्यं फलमिति प्रतीयते, सर्वथाऽभेदे हि नेयं व्यवस्था भवेदिति भावः । चशब्देनानुक्तस्यात्मनः प्रमातुस्संग्रहः । तेन प्रमाणफलयोर्यत् परिणामिकारणं स प्रमाता, यदि प्रमाता न भवेन्न भवेदेव तदा प्रमाणफलयोर्भेदाभेदः, प्रमाणाभिन्नात्माभिन्नत्वाद्धि प्रमाणफलयोरभेदो वाच्यो गत्यन्तराभावात्, तथा चात्मनोऽभावे सर्वथा क्षणिकत्वे सर्वथा नित्यत्वे च तदभेदासम्भवेन प्रमाणफल-व्यवस्थाविच्छेदापत्त्या प्रमाणफलाभ्यां भिन्नाभिन्न उत्पादव्ययध्रौव्यात्मकः प्रमाताऽभ्युपेय इति दर्शितः । तदेवं प्रमाणविषयफलप्रमातॄणां निरूपितत्वादवसितं प्रमाणनिरूपणमित्याहेतीति ॥
इति तपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कारश्रीमद्विजयकमलसूरीश्वरचरणनलिनविन्यस्तभक्तिभरेण तत्पट्टधरेण विजयलब्धिसूरिणाविनिर्मितस्य तत्त्वन्यायविभाकरस्य स्वोपज्ञायां न्यायप्रकाश व्याख्यायां प्रमाणनिरूपणनाम सप्तमः किरणः समाप्तः