________________
द्वितीयो भाग / सूत्र -५, सप्तमः किरणे
३५९
અનભિલાપ્ય ધર્મો અભિલાપ્ય ધર્મોની સાથે અવિનાભૂત છે. તેથી અભિલાખ અનભિલાપ્ય સ્વભાવવાળી વસ્તુ છે, એમ સિદ્ધ થયું છે. અધિક બીજા ગ્રંથોથી જાણી લેવું.
सम्प्रति सामान्यविशेषाद्यात्मकत्वं वस्तुनोऽभिधातुं प्रथमं सामान्यस्वरूपं निदर्शयति -
तत्र सामान्यं द्विविधं तिर्यक्सामान्यमूर्ध्वतासामान्यञ्चेति । व्यक्तिषु सदृशी परिणतिस्तिर्यक्सामान्यं, यथा शुक्लकृष्णादिगोव्यक्तिषु गौगौरिति प्रतीतिसाक्षिको गोत्वादिधर्मः । प्रमाणञ्चात्र गौौरिति प्रत्ययो विशिष्टनिमित्तनिबन्धनो विशिष्टबुद्धित्वादिति ।५।
तत्रेति । सामान्यविशेषाद्यनेकान्तात्मकमित्यत्रेत्यर्थः । प्रकारभेदं दर्शयति-तिर्यगिति । तिर्यगुल्लेखिनाऽनुवृत्ताकारप्रत्ययेन गृह्यमाणं तिर्यक्सामान्यमित्यर्थः । ऊर्ध्वतेति, ऊर्ध्वमुल्लेखिनाऽनुगताकारप्रत्ययेन परिच्छिद्यमानमूर्ध्वतासामान्यमित्यर्थः । तत्र प्रथमभेदं लक्षयति व्यक्तिष्विति, प्रत्येकं व्यक्तिष्वित्यर्थः, दृष्टान्तमाह यथेति । ननु शुक्लकृष्णादिगोभिन्नस्यापरस्य तिर्यक्सामान्यस्य गोत्वाद्यात्मकस्याप्रतीतितस्तल्लक्षणप्रणयनमसमीचीनं विजातीयव्यावृत्तेरेवानुगताकारप्रतीतेर्भावादित्यत्राह प्रमाणञ्चात्रेति, अत्र तिर्यक्सामान्य इत्यर्थः । गौ¥रिति प्रत्ययोऽत्र धर्मी, विशिष्टनिमित्तनिबन्धनत्वं साध्यधर्मः विशिष्टबुद्धित्वं हेतु: । तथा च तादृशं विशिष्टं निमित्तमितरासम्भवात्सदृशपरिणाम एवेति तिर्यक्सामान्यसिद्धिः । एवञ्चाबाधितप्रत्ययविषयत्वेन सामान्यसिद्धिः, तथाविधस्याप्यस्यासत्त्वे विशेषस्याप्यसत्त्वप्रसङ्गः, अबाधितप्रत्ययत्वव्यतिरेकेण प्रमाणान्तरस्य तद्व्यवस्थापकस्याभावात् अबाधितप्रत्ययस्य विषयमन्तरेणापि सद्भावाभ्युपगमे ततो न कस्यापि व्यवस्था स्यात्, न चानुगताकारत्वं बुद्धेर्बाधितं, सर्वत्र देशकालादावनुगतप्रतिभासस्यास्खलद्रूपस्य तथाभूतव्यवहारहेतोरुपलम्भात् । अतो व्यावृत्ताकारानुभवेनानधिगतमनुवृत्ताकारमवभासयन्ती बुद्धिरियमबाधितरूपानुभूयमानानुगताकारं वस्तुभूतं सामान्य व्यवस्थापयति । न च विजातीयव्यावृत्त्यालम्बनत्वमस्याः, विधिप्राधान्येन प्रवृत्त्यनुपपत्तेः, सकलव्यक्तिष्वेकव्यावृत्तेस्तुच्छाया असम्भवात्, धर्मिरूपत्वे च न ततो भिन्ना काचिद्व्यावृत्तिरिति कथमनुगता धीस्स्यात् सामान्यमन्तरेणैवानुगत प्रत्ययोत्पत्तौ व्यावृत्तप्रत्ययस्यापि विशेषमन्तरेणोत्पत्तिप्रसङ्गात् ।।
સામાન્યનું સ્વરૂપ હમણાં વસ્તુનું સામાન્ય-વિશેષ આદિ આત્મકપણું કહેવા માટે પહેલાં સામાન્યનું સ્વરૂપ દર્શાવે છે.
ભાવાર્થ – “સામાન્ય બે પ્રકારનું છે. પહેલો પ્રકાર તિર્યસામાન્ય છે અને બીજો પ્રકાર ઊર્ધ્વતા સામાન્ય છે. વ્યક્તિઓમાં સમાન પરિણતિ તિર્યસામાન્ય છે. જેમ કે ધોળી-કાળી વગેરે ગાયોરૂપ વ્યક્તિઓમાં