________________
३०४
तत्त्वन्यायविभाकरे
अन्योऽन्यव्याप्तिभावेनास्य जात्यन्तरात्मकत्वेन केवलभेदाभेदप्रत्युक्तदोषस्यात्रानवतारात् । तस्माद्येनाकारेण भेदस्तेन भेद एव, येन चाभेदस्तेनाभेद एवेत्यत्यन्तपरित्यक्तानेकान्तवादविषयमेतत् । अभेदाननुविद्धस्य केवलभेदस्य भेदाव्याप्यस्याभेदस्य चाप्रसिद्धः, न च येनाकारेण भेदस्तेनैवाभेदे इत्याद्यपि साम्प्रतम्, सर्वथैकनिमित्तत्वे भेदाभेदद्वयानुपपत्तेः, तर्हि कथं धर्मधर्मिणोर्भेदाभेद इति चेत्कथञ्चिद्भेदः कथञ्चिदभेद इति गृहाण, धर्माणां मिथो भेदात्प्रतिनियतधाश्रितत्वाच्च कथञ्चिद्भेदः, धर्माणां धर्मिणा सर्वथैकत्वे धर्मतयापि भेदासम्भवात्, तथा धर्माणामेवाभ्यन्तरीकृतधर्मिस्वरूपत्वात् धर्मिणोऽपि चाभ्यन्तरीकृतधर्मस्वरूपत्वात्कथञ्चिदभेदः, अत्यन्तभेदे धर्मर्मिकल्पनाऽसम्भवात्, अतिप्रसङ्गात्, अनुवृत्तव्यावृत्तस्य च वस्तुनोऽध्यक्षसिद्धत्वेन न भेदाभेदस्योत्प्रेक्षितत्वमपि, अनुभवो हि पुरोऽवस्थिते घटादौ तदतद्रूप एवोपजायते, अन्यथा वस्त्वभावप्रसङ्गादिति । ननु जीवादीनां द्रव्यत्वावच्छिन्नानां सत्त्वासत्त्वादिसप्तभङ्गीसाधने किं स्वद्रव्यं किं वा परद्रव्यं, तदवच्छिन्नभेदाप्रसिद्ध्या परत्वस्य तदभावे च स्वत्वस्य दुर्वचत्वादिति चेदुच्यते शुद्धं द्रव्यं स्वं सत्त्वावच्छेदकं, अशुद्धञ्च परमसद्रव्यं असत्त्वावच्छेदकं, शुद्धत्वाशुद्धत्वे च भेदाभेदप्रधानव्यवहारनिश्चयसाक्षिकाखण्डोपाधिरूपे, न च शुद्धद्रव्यस्य स्वपरद्रव्यव्यवस्था कथं, तस्य द्रव्यक्षेत्रकालभावात्मकत्वादिति वाच्यम्, सकलद्रव्यक्षेत्रकालभावरूपं व्यापकं स्वद्रव्यं विकलद्रव्यादिकं परद्रव्यमित्यङ्गीकारादेवमन्यत्रापि भाव्यं ॥
પૂર્વે કહેલ ભંગોમાં સત્ત્વ આદિના અવચ્છેદકપણાએ સ્વદ્રવ્ય-ક્ષેત્ર-કાળ-ભાવો કહેલ છે. તેઓના સ્વત્ત્વ-પરત્વના વિવેક માટે પહેલાં ભાવપદથી વાચ્ય સ્વરૂપને અસાધારણ હોવાથી આદિમાં દર્શાવે છે.
ઘટનું સ્વરૂપ भावार्थ - "मी सघणे . घटनुं १३५, 'माघ2 छे' मा प्रभारी शाननि३पित भारताश्रय, અન્યૂન અનધિક ઘટવરૂપ જ છે. તાદેશ પ્રકારતાનો અનાશ્રય, વિશેષ્યમાં અવૃત્તિ, પરત્વ આદિક પરરૂપ છે; પરંતુ તભિન્નત્વ માત્ર નહિ, કેમ કે દ્રવ્યત્વ આદિમાં પરરૂપપણાની આપત્તિ આવે છે. વળી ઘટ
१. स्वभावस्य धर्मत्वेन धर्मधर्मिणोरेकान्तभेदे धर्मिणो निस्स्वभावत्वं स्यात् तथा च ज्ञेयत्वादिधर्माननुवेधाद्धर्मिणोऽभावप्रसङ्गः, तदभावादेव च धर्माणां निराश्रयत्वादाश्रयं विना ग्रहणासम्भवादभावप्रसङ्ग इत्यतिप्रसङ्गपदार्थः ॥ २. ज्ञानवेद्या हि वस्तुव्यवस्थितिः नहि भेदाभेदात्मकत्वं संवेद्यते, उभयरूपस्य संवेदनस्याभावादित्याशंकायामाहानुभवो हीति ॥ ३. भाव एव हि द्रवति द्रोष्यति अदुद्रुवदिति द्रव्यं, क्षीयन्ते क्षेष्यन्ति क्षिताश्चास्मिन् पदार्था इति क्षेत्रं, कल्यन्ते कलयिष्यन्ते कलिताश्चास्मादिति कालः, भवति भविष्यत्वभूदिति भावः पर्याय इति सत्तैव द्रव्यक्षेत्रकालभावात्मना विशेष्यते तस्या एव तथा व्यवहारविषयत्वघटनादिति ॥