________________
द्वितीयो भाग / सूत्र - ३०, षष्ठ किरणे
३०३ येनाव्यतिरिक्तत्वविकल्पकल्पनयाऽवस्तुत्वापत्तिस्स्यात्, किन्तु स्वरूपादिसत्त्वमेव विशिष्टमेक स्वभावं पररूपाद्यसत्त्वमुच्यते, अतो नोक्तदोष इति चेन्मैवम्, स्ववाचैवानेकान्तत्वप्रतिपादनात्, विशिष्टं स्वरूपावच्छिन्नसत्त्वमेव पररूपाद्यवच्छिन्नासत्त्वमुच्यते सदसद्रूपत्वञ्च वस्तुनो न प्रतिपद्यत इति चित्रम्, स्वपररूपाद्यच्छिन्नसत्त्वासत्त्वोभयरूपतामन्तरा वस्तुनो विशिष्टताया असम्भवात् । नन्वेवमपि सदसद्रूपं वस्तु न सम्भवति, तथाहि असदिति प्रसज्यप्रतिषेधो वा स्यात्पर्युदासो वा, किश्चातः, उभयत्र दोषात् सन्न भवतीत्यसदिति प्रसज्यप्रतिषेधे सन्निवृत्तिरूपनिरुपाख्यस्यासत्त्वेन प्रमाणागोचरत्वाद्वस्तुधर्मत्वानुपपत्तेः, तत्त्वेऽभ्युपगम्यमाने वा निरुपाख्यधर्मवतस्सोपाख्यत्वासम्भवेन वस्त्वपि निरुपाख्यं स्यात्, सतोऽन्यदसदिति पर्युदासाश्रयणे सदन्तरमसद्भवति, एवमपि वस्तुनस्सदात्मकत्वेन सतोऽन्यत्वाभावान्न सदसदात्मकं, नहि सत् सदन्तरात्मकमिति चेन उभयपक्षाश्रयणेऽपि वस्तुनस्सदसदात्मकत्वात्, सत्त्वाननुविद्धस्यासत्त्वस्याभावेन सन्न भवतीत्यत्रापि परद्रव्यादिरूपेण सत एव प्रतिषेधात् तस्य च तत्रासत्त्वात्तत्स्वरूपस्य च सत्त्वानुवेधान्न निरुपाख्यमेव तदसत्त्वमिति न तत्पक्षोपक्षिप्तदोषप्रसक्तिः, पर्युदासपक्षदोषस्तु अनभ्युपगमादेव निरस्तः । तथा च सदसदात्मकं वस्तु, तत्रे न स्वरूपसत्त्वासम्पृक्तं पररूपासत्त्वं नवा पररूपासत्त्वासम्पृक्तं स्वरूपसत्त्वं, न चानयोरेकत्वमेव, अविगानेन सम्यगुभयोपलब्धेः, न च नानात्वमेव, तद्व्यवस्थाऽयोगात् तथानुपलब्धेश्चेत्यन्योऽन्यानुविद्धं भेदाभेदवृत्तितत्स्वभावं विशिष्टमुभयमेव तत् अन्यथा वस्तूनां वैशिष्ट्यानुपपत्तेरिति । ननु भवतु सत्त्वमसत्त्वञ्च वस्तुधर्मो वस्तुस्वरूपत्वं तयोः कथम्, तथाहि धर्मधर्मिणोः किन्तावद्भेद उताभेद आहोस्विद्भेदाभेदो वा, नाद्यः, वस्तुनस्सदर्सदात्मकत्वासम्भवात् न द्वितीयः एकधर्म्यभिन्नत्वात्तयोरैक्यापत्तेस्तत्स्वरूपवत्, धर्मिणो वा भेदस्स्यात् सदसत्त्वयोर्भेदात् नापि तृतीयः, येनाकारेण भेदस्तेन भेदैकान्त्यात् येन चाकारेणाभेदस्तेनाभेदैकान्त्यात्, तथाप्येकस्योभयरूपत्वासम्भवात्, न च येनैवाकारेण भेदस्तेनैवाभेदो येन चाभेदस्तेन भेद इति वक्तुं युज्यते विरोधादिति चेन्मैवम्, प्राथमिकविकल्पद्वयोक्तदोषस्यानभ्युपगमतिरस्कृतत्वात् भेदाभेदपक्षस्यैवाभ्युपगमात् । न चात्रापि दोष उक्त एवेति वाच्यम्,
१. परद्रव्यादिरूपेण सत: पटादेस्स्वद्रव्यादिरूपेण सति घटे प्रतिषेधः क्रियते पररूपाद्यवच्छिन्नसत्त्वस्य च घटेऽभावात् तदप्यसत्त्वं न निरुपाख्यं तत्स्वरूपसत्त्वस्यानुवेधात् सत्त्वाभावो हि घटात्मकः तस्मात्तत्सत्त्वेन सोऽनुविद्ध इति न निरुपाख्य इति भावः ॥ २. घटो हि स्वरूपेणास्ति, पररूपाद्यवच्छिन्नपटाद्यात्मकस्तु न भवति एवञ्च सत्त्वं तत्प्रतिषेधश्च घटस्वरूपमतस्सत्त्वमसत्त्वानुविद्धमसत्त्वञ्च सत्त्वानुविद्धमिति भावः ॥ ३. सत्त्वासत्त्वयोभिन्नत्वादिति भावः । ऐक्यापत्तेरिति, तदभिन्नाभिन्नस्य तदभिन्नत्वनियमादिति ॥