________________
३००
तत्त्वन्यायविभाकरे
વિવેચન – નિષેધરૂપે મુખ્યવિષયતાથી સ્વચ્છિન્ન, જે ઉભયરૂપે એકીસાથે અવક્તવ્યત્વની વિષયતા, તે વિષયતાવાળાનો બોધ આ વાક્યથી થાય છે. મતાન્તરથી તો ઘટનો એકદેશ નાસ્તિત્વમાં નિયત છે અને બીજો એકીસાથે સત્વ-અસત્વથી વિવલિત તે ઘટ, તથાવિધ વિકલ્પના વશે ‘નાસ્તિ ચ અવક્તવ્યશ્ચ થાય छ. तात्पर्यन छ -'तथाय' लि, 4sly स्पष्ट छे.
अथ सप्तमभङ्गवाक्यार्थमाह -
स्यादस्ति नास्ति चावक्तव्यश्च घट इति सप्तमं वाक्यन्तु क्रमार्पितस्वपरद्रव्यादीन् सहार्पितस्वपरद्रव्यादीनाश्रित्यास्तित्वनास्तित्वविशिष्टावक्तव्यत्ववद्घटमाह । तथा च तादृशो घटः प्रतियोग्यसमानाधिकरण्यघटत्वसमानाधिकरणात्यन्ताभावाप्रतियोगिक्रमार्पितस्वपरद्रव्याद्यवच्छिन्नास्तित्वोभयविशिष्टसहार्पितस्वपरद्रव्याद्यवच्छिन्नास्तित्वनास्तित्वोभयधर्मविषयकावक्तव्यत्ववान् घट इति बोधः ॥ २९ ॥
स्यादिति, क्रमादुभयमुख्यविषयताद्वयावच्छिन्नावक्तव्यत्वमुखविषयाताको बोधोऽस्य फलमित्याशयेनाह-क्रमार्पितेति, मतान्तरेण तु यस्यैको देशोऽस्तित्वेऽपरो नास्तित्वेऽन्यश्चोभयथा नियतस्तादृशो घटो विकल्पवशादस्तिनास्त्यवक्तव्यश्च भवतीति । भावार्थमाह तथा चेति स्पष्टम् । वाक्येष्वेषु सप्तसु नयविभागस्तु सामान्यग्राहिणि सङ्ग्रहे प्रथमो भङ्गः, विशेषग्राहिणि व्यवहारे द्वितीयः सङ्ग्रहव्यवहारयोस्तृतीयः, सूक्ष्मवर्तमानक्षणग्राहिणि ऋजुसूत्रे चतुर्थः एकदोभयार्पणाया वर्तमानक्षणनियतत्वात्, पञ्चमस्सग्रहर्जुसूत्रयोः, षष्ठो व्यवहारर्जुसूत्रयोः, सप्तमस्तु सङ्ग्रहव्यवहारर्जुसूत्रेष्विति । एते त्रयो नया वक्रभिप्रायरूपत्वादर्थनयाः, प्रर्थमद्वितीयावेव भङ्गौ शब्दादिषु त्रिषु नयेष्वपीति केचित् ॥
સાતમા ભંગનો વાક્યર્થ भावार्थ - "स्याद् अस्ति नास्ति च अवक्तव्यश्च पटः' मा सात पाय तो मथी मर्पित स्वપદ્રવ્યાદિની, સહ અર્પિત સ્વ-પરદ્રવ્યાદિની અપેક્ષા કરીને અસ્તિત્વ-નાસ્તિત્વવિશિષ્ટ અવક્તવ્યત્વવાળા
१. अयम्भावः अर्थप्रधानो वक्रभिप्रायोऽर्थनयः सङ्ग्रहादिः व्यञ्जनस्य परार्थत्वात्तच्छ्वणसम्भूतः शब्दादिश्रोत्रभिप्रायस्तु शब्दप्रभवमर्थमुपसर्जनतया व्यवस्थापयति, अतस्स शब्दनयश्शब्दसमभिरूढेवम्भूतभेदभिन्नः । तत्र वचनमार्गश्च सविकल्पनिर्विकल्पकभेदेन द्विविधः, सविकल्पं सामान्यं निर्विकल्पः पर्यायः, तत्प्रतिपादकत्वाद्वचनमपि तथा संज्ञाक्रियाभेदेनाभिन्नार्थप्रतिपादकावपि शब्दसमभिरूढौ भेदजिज्ञासारूपविकल्पसाहित्यात्तदभिप्रायेण सविकल्पको वचनमार्गः प्रथमभङ्गकरूपः, एवम्भूतस्तु क्रियाभेदाद्भिनमेवार्थ तत्क्षणे प्रतिपादयतीति तदुत्तरं भेदजिज्ञासारूपविकल्पविरहानिर्विकल्पो द्वितीयभङ्गरूपो वचनमार्गः । अवक्तव्यत्वभडस्तु व्यञ्जननये न सम्भवत्येव व्यञ्जननयस्य श्रोत्रभिप्रायत्वेन तत्र शब्दाभावात् तथा चैतन्त्रये प्रथमद्वितीयावेव भाविति ॥