________________
तत्त्वन्यायविभाकरे
करितुरगपदातिप्रत्यासत्तिविशेषरूपैकार्थस्यैव बोधकत्वं, एवमेव वनयूथपङ्क्तिमालादिशब्दा अपि । न च वृक्षाविति पदं वृक्षद्वयस्य वृक्षा इति पदञ्च बहूनां वृक्षाणां कथं बोधकमिति वाच्यं र्द्वन्द्वापवादैकशेषसमासाभ्युपगन्तृमतेन द्वाभ्यां वृक्षपदाभ्यां वृक्षद्वयस्य बहुभिश्च बहूनां वृक्षाणां बोधात् न तु सकृदेकेन, शिष्टलुप्तशब्दयोस्सारूप्याद्वाच्यसादृश्याच्चैकत्वोपचारेणैकशब्दप्रयोगोपपत्तेः । तत्रैकशेषसमासानभ्युपगन्तृमतेन तु द्विबहुवचनान्तो वृक्षशब्दस्स्वभावत एव स्वाभिधेयमर्थं द्वित्वबहुत्वविशिष्टमाचष्टे तथासामर्थ्यात्, अन्यथा शब्दव्यवहारानुपपत्तेः, अनेकनयमयेऽस्मन्मते तु वृक्षौ वृक्षा इत्यतः प्रत्ययवत्या प्रकृत्या वृक्षत्वतदाश्रयलिङ्गसंख्यादिविषयकक्रमिकोपस्थितिपरिणत एव लिङ्गसंख्यादिप्रकारको वृक्षविशेष्यकश्शाब्दबोधो जायते तत्र विशेष्यतया वृक्षस्य प्राधान्यं द्वित्वबहुत्वसंख्यादीनान्तु विशेषणतया गौणत्वमिति प्राधान्येनैकार्थवाचकत्वमेवैकपदस्याभिमतम् । न च पुष्पदन्तादिपदवदत्रापि केनचित्पदेन सदसतोरपि प्राधान्येनोपस्थितिः स्यादितिवाच्यम्, “एकयोक्त्या पुष्पदन्तौ दिवाकरनिशाकरा” विति कोशस्वरसादेकोच्चारणान्तर्भावेण गृहीतनानाशक्तिकपुष्पदन्तादिपदे व्युत्पत्तिवैचित्र्यात्, अत्र पुष्पदन्तपदं चन्द्रे सूर्ये च शक्तमित्याकारशक्तिग्रहः तत्कार्यतावच्छेदकञ्च चन्द्रत्वप्रकारकत्वे सति सूर्यत्वप्रकारकस्मृतिजननद्वारा तादृशशाब्दत्वम्, चन्द्रत्वसूर्यत्वोभयस्मिन् व्यासज्यवृत्तिरूपमेकं शक्यतावच्छेदकत्वं, एकत्र चान्यताग्रहे न शक्त्या बोधोऽपि तु लक्षणयेति नैयायिकाः । तथाविधस्यात्र सहार्पितसत्त्वासत्त्वोभयाश्रयबोधकस्य कस्यापि पदस्याभावादवक्तव्यत्वमेव साधु, तथा जिज्ञासाया बाधितत्वज्ञाने च तथा ज्ञानस्य विपरीतव्युत्पत्त्या जायमानस्याप्यनिष्टत्वप्रतिसन्धानान्न तदर्थं कश्चित्प्रामाणिकः पदप्रयोग इति तदाऽवक्तव्यत्वेन ज्ञानस्यैवेष्टत्वात्, अत एवैकक्षणे बोधद्वयं जायतामित्यादिस्थलेऽप्यवक्त व्यत्वाभिधानसाम्राज्यं, बाधितेच्छाविषयत्वावच्छेदेनावक्तव्यत्वव्यवस्थापनादिति ।
२९४
सत्त्वादिरूपेणेति, आदिनाऽसत्त्वस्य ग्रहः, अवक्तव्य एव घट इत्युक्तौ घटस्य सर्वथाऽवाच्यत्वं प्राप्नोति तथा चास्तित्वादिमुखेनापि घटस्याभिधानं न स्यादेवञ्च प्रथमद्वितीयादिभङ्गभङ्गप्रसङ्ग इति स्यात्पदप्रयोगः क्रियते, तेन च सत्त्वाद्येकैकधर्ममुखेन
१. द्वन्द्वस्य प्रवृत्तिस्त्वेकपदप्रतिपाद्यत्वसामानाधिकरण्येनापरपदप्रतिपाद्यत्वावच्छिन्नभेदे, एकपदजन्यप्रतिपत्तिविषयितात्वसामानाधिकरण्येनापरपदजन्यप्रतिपत्तिविषयितात्वावच्छिन्नभेदे वा भवति, घटावित्यादावेकपदप्रतिपाद्येऽपरपदप्रतिपद्यपाद्यत्वावच्छिन्नभेदाद्विशेष्यताभेदेन विषयिताभेदाद्वा तदुपपत्तिः ॥ २. सकृदुच्चरित - शब्दस्सकृदेव प्रधानतयाऽर्थं बोधयतीत्येव नियमात् ।