SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ २९३ द्वितीयो भाग / सूत्र - २६, षष्ठ किरणे અવચ્છેદકપણું છે. તથાચ ચાલનીન્યાયથી સ્વદ્રવ્ય-પદ્રવ્યાદિ ચતુટ્યથી અવચ્છિન્ન, સત્ત્વ-અસત્ત્વોભય આ ભંગનો વિષય છે. આવા આશયથી “સ્વ-પરરૂપ આદિથી અવચ્છિન્ન” એવું કહેલું છે, અર્થાત્ પ્રકૃતઅપ્રકૃતિ પરદ્રવ્યાદિ ચતુટ્યથી અવચ્છિન્ન અસ્તિત્વ-નાસ્તિત્વના અવચ્છિન્નત્વનો બોધ, ત્રીજો ભંગ કરાવે છે. ઉપસંહાર-તથાચેતિ- તાદશો ઘટઃ' એટલે પ્રકૃત-અપ્રકૃત ધર્માત્મક ઘટ. અહીં ક્રમાર્ષિતપણાનું ઉભય ધમવચ્છેદકપણું યથાશ્રુતના અભિપ્રાયથી છે. વળી જિજ્ઞાસામાં ભંગનિરૂપિત વિષયતાના અનવરચ્છેદકપણાના અભિપ્રાયથી “સ્વ-પરરૂપ આદિ છે. બાકીનું બધું પૂર્વની માફક જાણવું. चतुर्थभङ्गवाक्यार्थमाह - स्यादवक्तव्य एव घट इति चतुर्थं वाक्यं युगपत्स्वपररूपादीनामपेक्षणे वस्तु न केनापि शब्देन वाच्यमिति बोधयति, तथा च तादृशो घटः सत्त्वादिरूपेण वक्तव्य एव सन् युगपत्प्रधानभूतसत्त्वासत्त्वोभयरूपेण प्रतियोग्यसमानाधिकरणघटत्वसमानाधिकरणाभावाप्रतियोग्यवक्तव्यत्वानिति बोधः ॥ २६ ॥ स्यादिति । निरवयवद्रव्यविषयकमिदम् । प्राधान्यतो गुणभावतो वा सत्त्वासत्त्वधर्मयोर्युगपत्प्रतिपादने कस्यापि वचसः सामर्थ्याभावेन घटादिकं वस्तु ताभ्यामवक्तव्यं भवतीत्याशयेनाह युगपदिति । एकदैकपदादुभयबोधो जायतामितीच्छाविषयत्वेनेत्यर्थः । स्वपररूपादीनामित्यनेन स्वरूपाद्यवच्छिन्नसत्त्वपररूपाद्यवच्छिनासत्त्वे विवक्षिते, समुदितन्यायेन स्वरूपपररूपादीनां सत्त्वासत्त्वनिष्ठविषयतावच्छेदकतया विवक्षण इति वाऽपेक्षण इति पदान्तस्यार्थः, आदिना द्रव्यक्षेत्रकालानां ग्रहणम् । न केनापि शब्देन वाच्यमिति, कस्यापि पदस्य समस्तपदस्य वाक्यस्य वा तथाविधवाच्यवाचकभावाविषयीभूतत्वादिति भावः, एकं हि पदमेकया शक्त्याऽर्थमेकमेव बोधयति शब्दशक्तिस्वाभाव्यात् सदिति पदस्यासदविषयत्वादसदिति पदस्य सदविषयत्वात्, अन्यथा तदन्यतरप्रयोगसंशयप्रसङ्गात्, नानार्थविषयस्यापि गवादिपदस्य वस्तुतोऽनेकत्वात् सादृश्योपचारादेव हि तस्यैकत्वेन व्यवहारः, इतरथा सर्वस्यैकशब्दवाच्यत्वं स्यात्, प्रत्येकमप्यनेकशब्दप्रयोगवैफल्यमपि प्रसज्येत, तथा च यथा शब्दभेदेनार्थभेदो ध्रुवस्तथाऽर्थशब्दभेदादपिभेदस्सिद्ध एव, अन्यथा वाच्यवाचकनियमव्यवहारो विलीयेत, एवं वाक्यमप्येकं न युगपदनेकार्थविषयं वेदितव्यम् । ननु शाब्दबोधस्य सङ्केताधीनत्वेन कस्यचिच्छब्दस्य सदसत्त्वयोस्संकेतकरणेन व्याकरणे सदिति संज्ञाशब्देन संकेतवलात् शतृशानचोर्बोधादिव सह सदसत्त्वयोः कथं ततो न बोधो भवेदिति चेन्न तत्रापि प्रत्ययद्वयस्य क्रमेणैवोत्पत्तेर्वाच्यवाचकभेदेन वाचकतारूपशक्तेरपि भेदादनेकार्थशब्दस्थल इव बोध्यभेदे शब्दभेदेकल्पनात्, उपचारेण चैकत्वाभिमानात् । सेनादिशब्दानामपि
SR No.022496
Book TitleTattvanyaya Vibhakar Part 02
Original Sutra AuthorN/A
AuthorLabdhisuri, Bhadrankarsuri, Vikramsenvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2013
Total Pages776
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy