________________
तत्त्वन्यायविभाकरे
विरुद्धत्वादिति सम्मत्याद्यनुसारेण तु घटस्यैकदेशः अस्तित्वेऽवच्छेदकतयाऽपरश्च देशो नास्तित्वस्यावच्छेदकत्वेन विवक्षितस्तदा देशाभेदद्वारा घटोऽप्यस्ति नास्ति च भवति, अक्षिपाणिगतकाणत्वकुण्टत्वापेक्षया यथा देवदत्तः काण: कुण्टः । अन्यथा क्रमेणाप्येकत्र सदसत्त्वविवक्षाया अनुदयेन भङ्गविलोप: प्रसज्येत । देशोऽप्यवयवो धर्मो वा अवयवावयविनोर्धर्मधर्मिणोश्च कथञ्चिदभेदेनावयवादिधर्मैरपि अवयव्यादीनां तथा व्यपदेशस्सुघट एव, उभयप्रधानावयवाभेदेनास्तित्वं नास्तित्वञ्चात्रार्प्यते, तथा चास्माद्वाक्यात्स्वाश्रयसमवायित्वरूपपरम्परासम्बन्धावच्छिन्नास्तित्वनास्तित्वरूपधर्मद्वयप्रकारतानिरूपितै कविशेष्यताशालिबोधो भवति । इदञ्चौपादानिकबोधापेक्षया, अन्यथा घटपदस्य देशपरस्याऽऽवृत्त्या प्रकारताद्वयनिरूपितविशेष्यताद्वयशाल्ये व बोधस्स्यात् । न च प्रकारभेदेन सप्तभङ्गीभेदश्शास्त्रसिद्धः प्रकारश्च विधेयधर्म उद्देश्यतावच्छेदकधर्मो वेत्यत्र न कश्चिद्विशेषः, अत एव शुद्धघटादिधर्मिकसप्तभङ्गयपेक्षया नीलघटादिधर्मिकसप्तभङ्गया अविगानेन भेदस्तथा च प्रकृते धर्मितावच्छेदकस्यावयवस्य धर्मान्तरस्य वा भेदात्सप्तभङ्गीभेदप्रसङ्ग एकधर्मावच्छिन्नत्वघटितत्वात्सप्तभङ्गया इति वाच्यम्, तत्तद्धर्मितावच्छेदकसमनियतधर्मावच्छिन्नविशेष्यतास्थले सप्तभङ्गीभेदाभावात्, अन्यथा कम्बुग्रीवादिमान् स्यादस्तीत्यादितोऽपि घटविशेष्यकसप्तभङ्गीभेदापत्तेरिति । तादृशे घट इति, प्रकृतेतरसकलधर्मात्मके घट इत्यर्थः । क्रमार्पितेति, क्रमिकशाब्दबोधद्वयेच्छाविषयेत्यर्थः । न च क्रमबलादुभयमुख्य विशेष्यताक बोधस्यार्थसिद्धत्वेनाद्यभङ्गद्वयानतिरेक इति वाच्यं क्रमगर्भोभयप्राधान्यबोधकत्वाभिप्रायेणोभयपदप्रयोगात्, तत्रैकत्र द्वयमिति विषयताशालिनो धर्मद्वयप्रकारतानिरूपितैकविशेष्यतानिरूपकस्य बोधान्तरस्यानुभविकत्वात् वस्तुत इच्छाविशेषरूपस्य क्रमार्पितत्वस्य भङ्गप्रयोजकत्वान्न भङ्गे सत्त्वासत्त्वोभयनिष्ठविषयतावच्छेदकत्वं स्वपरद्रव्यादीनामेव तत्रावच्छेदकत्वात् तथा च चालनीन्यायेन स्वद्रव्यपरद्रव्यादि चतुष्टयावच्छिन्नं सत्त्वासत्त्वोभयमस्य भङ्गस्य विषय इत्याशयेन स्वपररूपाद्यवच्छिन्नेत्युक्तम् । वाक्यार्थं निगमयति, तथा चेति, तादृशो घट इति प्रकृतेतरसकलधर्मात्मको घट इत्यर्थः क्रमार्पितत्वस्योभयधर्मावच्छेदकत्वं यथाश्रुताभिप्रायेण, जिज्ञासाया भङ्गीयविषयतानवच्छेदकत्वाभिप्रायेण तु स्वरूपादीति, शिष्टं पूर्ववद्भाव्यम् ॥ હવે ત્રીજા વાક્યનો અર્થ કરે છે.
२९०
અવચ્છિન્નત્વનો બોધ (૩)
ભાવાર્થ - “સ્યાત્ અસ્તિ નાસ્તિ ચ ઘટઃ’ આવું ત્રીજું વાક્ય, તાદેશ ઘટમાં ક્રમથી અર્પિત સ્વ-૫૨રૂપ આદિથી અવચ્છિન્ન અસ્તિત્વ-નાસ્તિત્વથી અવચ્છિન્નત્વ(વિશિષ્ટત્વ)નો બોધ કરાવે છે.