________________
२८४
तत्त्वन्यायविभाकरे रजतं गृह्णात्येवेति प्रयोगप्रसङ्गात्, तस्मात्प्रकृते क्रियासङ्गतोऽप्येवकारोऽयोगव्यवच्छेदबोधक इति न कापि क्षतिः, अस्तीति विभक्तिप्रतिरूपकाव्ययाश्रयणात् सत्त्वबोधेन विशेषणे सत्त्वे एवकारान्वयेनायोगव्यवच्छेदबोधाद्वा न कोऽपि दोषः । तदेवं पदशक्तिग्रहे जाते वाक्यशक्तेरुद्बुद्धतया वाक्यार्थं प्रदर्शयति तथा चेति, वाक्यादस्मात् प्रधानतयाऽस्तित्वधर्मात्मकत्वस्य गौणतया च तदितरसकलधर्मात्मकत्वस्य बोधेन द्रव्यार्थिकनयार्पणया घटेऽनुपचरितैकविशेष्यतायाः पर्यायार्थिकनयार्पणयोपचरितैकविशेष्यताया वा भानेन एव कारार्थाभावाप्रतियोगित्वघटकाभावे विशेष्यतावच्छेदकसामानाधिकरण्यस्य विशेष्यवाचक पदसमभिव्याहारेण लाभाच्च प्रतियोग्यसमानाधिकरणघटत्वसमानाधिकरणात्यन्ताभावाप्रतियोगिस्वद्रव्याद्यवच्छिन्नास्तित्वनिष्ठस्वेतरसकलधर्मात्मकत्व-सम्बन्धावच्छिन्नप्रकारतानिरूपिताभेदप्राधान्याभेदोपचारप्रयुक्तैकविशेष्याताको घट इति बोधः फलित इति भावः । घटत्वसमानाधिकरणऽभावे प्रतियोगिवैयधिकरण्यञ्चास्तित्वाभावरूपस्य नास्तित्वस्य घटे सत्त्वेनास्तित्वेऽप्रतियोगित्वरक्षायै । तथा चास्तित्वाभावो न प्रतियोग्यसमानाधिकरणस्तत्रास्तित्वस्यापि सत्त्वादिति । अयञ्च बोधः केवलं घटस्यैव विशेष्यत्वमङ्गीकृत्योक्तः, यदि स्यात्पदार्थोऽपि. विशेष्यकोटौ प्रवेंश्यते तदा प्रकृतेतरसकलधर्मात्मको घटो घटत्वसमानाधिकरण-प्रतियोगिव्यधिकरणाभावाप्रतियोगिस्वद्रव्याद्यवच्छिन्नास्तित्वनिष्ठकथञ्चित्तादात्म्यसम्बन्धावच्छिन्नप्रकारतानिरूपितैकविशेष्यतावानिति बोधो भाव्य इति । अत्र च प्रधानभावेनास्तित्वधर्मात्मकत्वं गुणभावेन च तदितरसकलधर्मात्मकत्वं बोध्यते ततो गुणप्रधानभावापन्नं वाक्यं जातं तथा सति प्रधानभावेनाशेषधर्मात्मकवस्तुबोधकस्सकलादेश इति नियमो व्याहत इत्युच्यते तर्हि एतद्वाक्यबोधानन्तरमनन्तधर्मात्मकं सर्वमित्यौपादानिकबोधोऽङ्गीकार्यः । अत एवास्य सकलादेशरूपत्वमिति ॥
આ પ્રમાણે પ્રકાશિત અભેદવૃત્તિ-અભેદ ઉપચારથી એક અસ્તિ-નાસ્તિ આદિ શબ્દથી એક ધર્મપ્રતિપાદન મુખથી, તેનાથી ભિન્ન સમસ્ત અનંતધર્માત્મક વસ્તુનો બોધ સંભવે છે. આ પ્રમાણે નિરૂપણ કરીને હવે દરેક વાક્યના અર્થનિરૂપણનો પ્રારંભ કરાય છે.
विधिविधेय पोय (१) ભાવાર્થ – “ઘટસયાદસ્યવ” આવું પહેલું વાક્ય ઇતર ધર્મના અપ્રતિષેધદ્વારા વિધિવિષયક બોધનું ४13 छ. 480 'स्यात्' ५०६, ममे प्रधानताथी 3 ममेह ७५या२था अनंत वाणाने छ. स्ति'
१. ननु क्रियासङ्गतैवकारस्यात्यन्तायोगव्यवच्छेदकत्वे प्रयोगोऽयं भवत्येव, न ह्यत्रायोगव्यवच्छेदो भासते येन सर्वेषां ज्ञानानां रजतं न विषय इति कृत्वोक्तप्रयोगो न भवेत्, किन्तु ज्ञानं कदाचिदपि रजतं न गृह्णातीत्येवंविधात्यन्तायोगस्यैवात्र व्यवच्छेदत्वेनेष्टत्वादित्यस्वरसादाहास्तीतिविभक्तिप्रतिरूपकाव्ययाश्रयणादिति ॥