________________
२८३
द्वितीयो भाग / सूत्र - २३, षष्ठ किरणे वच्छिन्नसत्त्वस्यैव प्रतीतेस्सर्वथा निरवच्छिन्नसत्त्वं अप्रामाणिकमेव, इदमपि सत्त्वमर्पितानर्पितदृष्टया सावच्छिन्नं निरवच्छिन्नमपीति बोध्यम् । अयोगव्यवच्छेदमिति, अयम्भावः, एवकारस्त्रिविधः, अयोगव्यवच्छेदबोधकोऽन्ययोगव्यवच्छेदबोधकोऽत्यन्तायोगव्यवच्छेदबोधकश्चेति, विशेषणान्वितैवकारोऽयोगव्यवच्छेदबोधकः, यथा शंख, पाण्डुर एवेति, विशेष्ये विशेषणस्य योऽयोगः सम्बन्धाभावस्तस्य यो व्यवच्छेदस्सोऽयोगव्यवच्छेदः उद्देश्यतावच्छेदकसमानाधिकरणाभावाप्रतियोगित्वमिति यावत्, शंखः पाण्डुर एवेत्यत्रोद्देश्यश्शंखो विधेयं पाण्डुरत्वं तथा चोद्देश्यतावच्छेदकं यच्छंखत्वं तद्वति वृत्तियोऽभावो घटाद्यभाव एव न पाण्डुरत्वाभावस्तत्र पाण्डुरत्वस्य सत्त्वात् तथा च तदप्रतियोगित्वं पाण्डुरत्व इति शंखत्वसमानाधिकरणाभावाप्रतियोगिपाण्डुरत्ववानयं शंख इत्येवकारमहिम्ना तादृशवाक्याद्बोधो भवति, विशेष्यसङ्गतैवकारेणान्ययोगव्यवच्छेदस्य बोधो जायते, यथा पार्थ एव धनुर्धर इत्यादौ, अन्यस्मिन् विशेष्यभिन्ने योऽयं योगस्सम्बन्धो विशेषणस्य तस्य व्यवच्छेदः, उद्देश्यतावच्छेदकावच्छिन्नप्रतियोगिकभेदसमानाधिकरणाभावप्रतियोगित्वमिति यावत् पार्थत्वावच्छिन्नप्रतियोगिकभेदः पुरुषान्तरे तत्र धनुर्धरत्वाभावोऽस्ति, तस्मात्पार्थत्वाच्छिन्नप्रतियोगिकभेदसमानाधिकरणाभावप्रतियोगिधनुर्धरत्ववान् पार्थ इति बोधस्ततो जायते । क्रियासङ्गतादेवकाराश्चात्यन्तायोगव्यवच्छेदस्य बोध उदेति, यथा नीलं सरोजं भवत्येवेत्यादौ, उद्देश्ये विशेषणस्य योऽयमत्यन्तमयोगोऽसम्बन्धस्तस्य व्यवच्छेद इत्यर्थः, उद्देश्यतावच्छेदकव्यापकाभावाप्रतियोगित्वमिति यावत् । अत्रोद्देश्यं सरोजं तदवच्छेदकं सरोजत्वं तच्च यत्र यत्र तत्र सर्वत्र नीलवत्त्वाभावो न वर्त्तते, क्वचिन्नीलस्यापि सत्त्वात् तथा चोद्देश्यतावच्छेदकव्यापकोदासीनाभावाप्रतियोगित्वस्य नीलवत्त्वे सत्त्वेन सरोजत्वव्यापकाभावाप्रतियोगिनीलरूपवत्सरोजमिति बोधस्तादृशवाक्याद्भवति । स्यादस्त्येव घट इत्यत्रापि घटत्वसमानाधिकरणाभावाप्रतियोगित्वस्य स्वरूपाद्यवच्छिन्नसत्त्वे सत्त्वेनायोगव्यवच्छेदक एवकारः, न चात्रैवकारस्यास्तीति क्रियासङ्गतत्वेन तस्मादत्यन्तायोगव्यवच्छेदस्यैव बोधो भवेदिति कथमयोगव्यवच्छेदस्तदर्थः प्रकृत इति वाच्यम्, ज्ञानमर्थं गृह्णात्येवेत्यादौ ज्ञानत्वसमानाधिकरणाभावाप्रतियोगित्वस्यार्थग्राहकत्वे धात्वर्थे बोधात्क्रियासङ्गतस्याप्येवकारस्य क्वचिदयोगव्यवच्छेदबोधकत्वात्, न च तत्राप्यत्यन्तायोगव्यवच्छेदक एवैवकारो वाच्य इति वाच्यम्, तथा सत्येकस्मिन्नपि ज्ञाने रजतत्वग्राहकत्वसत्त्वेऽत्यन्तायोगव्यवच्छेदसम्भवेन ज्ञानं