________________
२७२
तत्त्वन्यायविभाकरे वच्छिनैकाधिकरणवृत्तित्वं वर्तत इति कृत्वा तेषां कालेनाभेद इति भावः । एकगुणिगुणत्वेति, अस्तित्वं हि घटस्य गुणस्तस्मादस्तित्वस्य घटगुणत्वं स्वरूपं तथा तद्वृत्तिशेषधर्माणामपीति सर्वेषां धर्माणामेकगुणिगुणत्वस्वरूपतया स्वरूपेणाभेदवृत्तिरिति भावः । एकाधिकरणवृत्तित्वेति, यथा ह्यस्तित्वस्याधिकरणं घटस्तथैव निखिलधर्माणामपीत्येकाधिकरणवृत्तित्वादेषामर्थेनाभेदवृत्तिरिति भावः । एकसम्बन्धप्रतियोगित्वेति, यो ह्यस्तित्वस्य घटेन कथञ्चित्तादात्म्यरूपस्सम्बन्ध स एवाशेषाणामपीति सर्वे धर्माः कथञ्चित्तादात्म्यलक्षणसम्बन्धस्य प्रतियोगिनस्तस्मादेकसम्बन्धप्रतियोगित्वादेषां सम्बन्धेनाभेदवृत्तिरिति भावः । एकोपकारकत्वेति, अस्तित्वस्य योऽयमुपकारः स्वप्रकारकर्मिविशेष्यकज्ञानजनकत्वं स एवोपकारस्स्वान्याखिलधर्माणामिति सर्वेषामेकोपकारकत्वेनोपकारेणाभेदवृत्तिः । एकदेशावच्छिन्नवृत्तित्वेति, अस्तित्वं हि यद्देशावच्छेदेनास्ति तद्देशावच्छेदेनैव स्वेतरेऽखिलधर्मास्सन्तीत्येक देशावच्छिन्नवर्तिन एते, न ह्यस्तित्वं कण्ठावच्छेदेन पृष्ठदेशावच्छेदेन नास्तित्वमिति देशभेदो वर्त्तत इति गुणिदेशेनैतेषामभेदवृत्तिरिति भावः । एकसंसर्गप्रतियोगित्वेति, य एव हि घटे नास्तित्वस्यैकवस्त्वात्मना संसर्गस्स एवान्येषामपीति तेषामेकसंसर्गप्रतियोगित्वात्संसर्गेणाभेदवृत्तिः, एकशब्दवाच्यत्वधमैरिति, अस्तित्वधर्मात्मकस्य च एवास्तिशब्दो वाचकस्स एव तद्भिन्नानन्तधर्मात्मकस्यापि वस्तुनो वाचक इति एकशब्दवाच्यत्वाच्छब्देनाभेदवृत्तिरिति भावः । धर्मान्तं पदमस्तिनाऽभिन्नत्वे प्रयोजकप्रदर्शनपरम् । जनकत्वमपीतीति सकलादेशलक्षणसमन्वय इति शेषः । अत्र मलयगिरिचरणास्सप्तभङ्गयां प्रतिभङ्गं प्रमाणवाक्यमेव, नतु नयः, स्याच्छब्देन विवक्षितधर्मोपरागेण कालादिभिरभेदवृत्त्याऽभेदोपचारेण वाऽनन्तधर्मात्मकवस्तुप्रतिपादने प्रमाणवाक्यस्यैव व्यवस्थितेः, अत एव स्याच्छब्दलाञ्छिततयैव सर्वत्र साधूनां भाषाविनयो विहितः, अवधारणी भाषा च निषिद्धा तस्या नयरूपत्वात्, नयानां च सर्वेषां मिथ्यादृष्टित्वात् तथा चानुस्मरन्ति “सव्वेणया मिच्छावायिणो" त्ति, न च सप्तभङ्गात्मकं प्रमाणवाक्यं एकभङ्गात्मकञ्च नयवाक्यमित्यपि नियन्तुं शक्यम्, सप्तभङ्गानां सप्तविधजिज्ञासोपाधिनिमित्तत्वेनासार्वत्रिकत्वात् को जीव इति प्रश्ने लक्षणमात्रजिज्ञासया स्याज्ज्ञानादिलक्षणो जीव इत्येकवाक्यस्य प्रमाणवाक्यरूपस्योत्तरस्य सिद्धान्तसिद्धत्वात्
१. तादात्म्यातिरिक्तसम्बन्धासिद्धेरिति भावः, यद्यपि कार्यकारणभावदैशिककालिकाधाराधेयभावादीनामतादात्म्येऽपि तत्तत्सम्बद्धव्यवहारकारित्वं दृश्यते तथापि तत्रापि तत्तद्वयवहारप्रयोजकशक्त्यात्मना कथञ्चित्तादात्म्याभ्युपगमाददोषः, तथा च यत्राभेदव्यवहारस्तत्राभेद उद्भूतोऽनुद्भूतो भेदः, पृथक्सम्बन्धिस्थले तु वैपरीत्येनेति बोध्यम् ॥