________________
२६६
तत्त्वन्यायविभाकरे
ननु प्रथमद्वीतीयधर्मवत्प्रथमतृतीययुक्तधर्मान्तरस्य सिद्धेः कथं सप्तविधधर्मनियम इति चेन्न क्रमाक्रमार्पितयोः प्रथमतृतीयधर्मयोर्धर्मान्तरत्वेनाप्रतीतेः सत्त्वद्वयस्यासम्भवात् विवक्षितस्वरूपादिना सत्त्वस्यैकत्वात्, एवमेव द्वितीयतृतीयधर्मयोः क्रमाक्रमार्पितयोर्न धर्मान्तरत्वेन प्रतीतिरसत्त्वद्वयस्यासम्भवात् पररूपादिनाऽसत्त्वस्यैकत्वात् । ननु तथा सति प्रथमचतुर्थयोद्धितीयचतुर्थयोस्तृतीयचतुर्थयोश्च सहितयोः कथं धर्मान्तरत्वं, चतुर्थे सहार्पितसत्त्वासत्त्वभानादिति चेन्न चतुर्थे तयोरपरामर्शात् किन्तु तथापितयोस्तयोस्सर्वथा वक्तुमशक्तेरवक्तव्यत्वरूपधर्मान्तरस्यैव तेन प्रतिपादनात्, न च तेन सहितस्य सत्त्वस्यासत्त्वस्योभयस्य वाऽप्रतीतिधर्मान्तरत्वासिद्धिर्वेति भङ्गानां विषयनियममाह -
तत्र प्रथमे भङ्गे सत्त्वस्य प्रधानतया भानं, द्वितीयेऽसत्त्वस्य प्राधान्येन, तृतीये क्रमार्पितसत्त्वासत्त्वयोश्चतुर्थेऽवक्तव्यत्वस्य पञ्चमे सत्त्वविशिष्टावक्तव्यत्वस्य षष्ठेऽसत्त्वविशिष्टावक्तव्यत्वस्य सप्तमे तु क्रमाप्तिसत्त्वासत्त्वविशिष्टावक्तव्यत्वस्य । असत्त्वादीनान्तु गुणभावेन प्रतीतिः ॥१४॥
तत्रेति । सप्तभङ्गीवाक्य इत्यर्थः, प्रथमे भङ्ग इति, स्यादस्त्येव घट इति भङ्ग इत्यर्थः, प्रधानतया भानमिति नेतरधर्मभाननिरसनपरमिति भावः । भानमित्यग्रेतनवाक्येष्वपि सम्बद्ध्यते । कथं तसत्त्वादीनां प्रतीतिरित्यत्राहासत्त्वादीनान्त्विति ।।
સપ્તભંગીનું ભાન ભાવાર્થ – “પહેલા ભંગમાં સત્ત્વનું પ્રધાનપણાએ ભાન છે, બીજા ભંગમાં અસત્ત્વનું પ્રધાનપણે ભાન છે, ત્રીજા ભંગમાં ક્રમથી અર્પિત સત્ત્વ અને અસત્ત્વનું પ્રધાનતયા ભાન છે, ચોથા ભંગમાં અવક્તવ્યત્વનું મુખ્યતયા ભાન છે, પાંચમા ભંગમાં સત્ત્વવિશિષ્ટ અવક્તવ્યત્વનું મુખ્યત્વે ભાન છે, છઠ્ઠા ભંગમાં અસત્ત્વવિશિષ્ટ અવક્તવ્યત્વનું પ્રાધાન્યતઃ ભાન છે અને સાતમા ભંગમાં ક્રમ અર્પિત સત્ત્વ-અસત્ત્વવિશિષ્ટ અવક્તવ્યત્વનું પ્રધાનતયા ભાન છે. પ્રથમ ભંગ આદિમાં અસત્ત્વ આદિની ગૌણભાવથી પ્રતીતિ છે.”
વિવેચન – “સ્યાદ્ અસ્તિ એવ ઘટઃ'-આવા પ્રથમ ભંગમાં પ્રધાનતયા ભાન છે, એવું વાક્ય બીજા ધર્મોના ભાનનું ખંડન કરનારું નથી.
શંકા – તો અસત્ત્વ આદિની પ્રતીતિ કેવી રીતે થશે? સમાધાન – અસત્ત્વ આદિની પ્રતીતિ ગૌણભાવથી છે.
१. क्रमार्पितास्तित्वनास्तित्वोभयस्मिन्नस्तित्वरूपधर्मान्तरस्येति भावः ॥ २. क्रमार्पितास्तित्वनास्तित्वोभयस्मिन्नास्तित्वरूपधर्मान्तरस्येति भावः ॥ ३. सहार्पितसत्त्वासत्त्वोभयावच्छेदेन तृतीयभङ्गजन्यशाब्दबोधविषयत्वाभावस्यैव स्यादवक्तव्यपदार्थत्वादिति भावः ॥