________________
द्वितीयो भाग / सूत्र - ११, षष्ठ किरणे
२५७
घटस्य स्वरूपादिभिरस्तित्वमिव तैरेव नास्तित्वमपि स्यादित्यनिष्टार्थनिवृत्त्यर्थं तद्ग्रहणस्यावश्यकत्वादत एव घटस्सन्नेवेत्यतः निखिलधर्मावच्छिनसत्त्वप्रतीतौ तदपवादाय नियतावच्छेदकस्फोरणार्थं स्यात्पदम् । यदि तु व्युत्पन्नस्य घटस्सन्निति निरवधारणप्रयोगेऽपि स्वद्रव्यादिचतुष्टयावच्छिन्नस्वरूपसत्त्वप्रकारकबोधो भवतीत्युच्यते तदा तदपेक्षयाऽप्रयोगोऽपीत्यत्राप्यनेकान्त एव । न चानेकान्तस्य वाचकेन द्योतकेन वा स्वाच्छब्देन सत्त्वासत्त्वाद्यनेकधर्मवद्वस्तुनः प्रतिपादनात्सदादिवचनमनर्थकमिति वाच्यम् । एकान्तबुद्धिविलक्षणबुद्धिविशेषविषयतावच्छेदकत्वेन स्यात्पदस्य सत्त्वासत्त्वादिधर्मसप्तकघटितसप्तभङ्गीबोधकत्वेऽपि प्रातिस्विकरूपेणतत्तद्धर्मबोधनार्थं तत्प्रयोगस्यावश्यकत्वादिति । धर्मान्तराप्रतिषेधकं प्राधान्येन विधिबोधकं वाक्यमिदं, तेन प्रतिषेधकल्पनैव सत्यमिति निरस्तमभावैकान्तस्य प्रतिषेधादिति भावः । विधिकल्पनाया एव सत्यत्वात्तयैकमेव वाक्यं स्यादित्याशंकायामाह स्यान्नास्त्येव घट इति । विध्येकान्तस्य निराकरणेन प्रतिषेधकल्पनाया अपि सत्यत्वान्नैकमेव वाक्यमिति भावः । धर्मान्तराप्रतिषेधकं प्राधान्येन प्रतिषेधविषयक बोधजनकं वाक्यमिदम् । ननु सदर्थप्रतिपादनाय विधिवाक्यमसदर्थप्रतिपादनाय च निषेधवाक्यमिति वाक्यद्वयमेवास्तु, प्रमेयान्तरस्य शब्दविषयस्यासम्भवादिति शंकानिरासायाह स्यादस्ति नास्ति च घट इति । तथा च प्रधानभावेनापितस्य सदसदात्मनो वस्तुनः प्रधानभूतैकेकधर्मात्मकात्मकादर्थादर्थान्तरत्वसिद्धेः सत्त्ववचनेनैवासत्त्ववचनेनैव वा क्रमार्पितयोः प्रधानीभूतसदसत्त्वयोः प्रतिपादयितुमशक्यत्वेनावश्यकत्वं तद्वोधकतया तृतीयवाक्यस्येति भावः । प्राधान्येन क्रमार्पितविधिनिषेधबोधकमिदम् । नन्वस्तु तर्हि वाक्यत्रयमेव प्रोक्तधर्मत्रयातिरिक्तस्य कस्याप्यभावादित्यत्राह स्यादवक्तव्य एवेति । क्रमेणार्पितयोस्तयोर्यथा वक्तव्यता तथा सहार्पितयोः कथं वक्तव्यत्वमिति स्वाभाविके पर्यनुयोगे विलसिते तथा सर्वथा वक्तुमशक्तेरवक्तव्यत्वरूपधर्मान्तरप्रतिपादकस्य वाक्यस्यास्त्यावश्यकतेति भावः । तथा चावक्तव्यत्वबोधकमिदं वाक्यम् । तथापि वाक्यचतुष्टयमेव स्यादित्यत्राह स्यादस्ति चावक्तव्यश्चेति । तथा च सदवक्तव्यत्वधर्मान्तरस्यापि सम्भवेनेदमपि वाक्यं नियतमेवेति भावः, सत्त्वविशिष्टावक्तव्यत्वबोधकवाक्यमिदम् । एवमसदवक्तव्यत्वस्यापि धर्मान्तरस्य सिद्ध्या तत्प्रतिपादकं वाक्यमप्याह स्यान्नास्ति चावक्तव्यश्चेति, नास्तित्वविशिष्टावक्तव्यत्वबोधकवाक्यमिदम् । एवं सदसदवक्तव्यत्वधर्मस्यापि प्रतीयमानत्वेन तद्बोधकं वाक्यमाह