________________
२५०
तत्त्वन्यायविभाकरे तथा च परस्परसापेक्षाणां पदानां निरपेक्षस्समुदायो वाक्यमिति निष्कर्षः । निरपेक्षपदञ्च चैत्रः स्थाल्यां पचतीति कर्मपदरहितेऽतिव्याप्तिवारणाय । ननु 'स्फटिकाकृतिनिर्मलः प्रकाममि' त्यादौ वाक्य आकृतिपदघटितत्वेनाधिकेऽतिव्याप्तिवारणार्थं विशेषणान्तरनिवेशप्रसंगः, न च तत्तदोषाभावकूटविशिष्टपदसमुदायत्वं वाक्यत्वमुच्यते न्यूनत्वाधिकत्वादिकं च दोष एवेति न तत्रातिव्याप्तिरिति वाच्यमननुगमादिति चेन्नाऽऽकांक्षायोग्यतासत्तिमत्पदसमूहस्यैव वाक्यत्वात् तत्राकांक्षा अभिधानापर्यवसानं, अभिधानं पदं तस्यापर्यवसानमन्वयाननुभावकत्वम्, तथा च यस्यपदस्य समभिव्याहृतयत्पदव्यतिरेकप्रयुक्तं यादृशान्वयाननुभावकत्वं तादृशान्वयाननुभवे समभिव्याहृततत्पदस्य तेन तादृशान्वयाननुभावकत्वं तयोराकांक्षा, अस्ति च द्वितीयादिपदस्य घटादिविशिष्टकर्मत्वाद्यन्वयाननुभावकत्वं घटादिपदव्यतिरेकप्रयुक्तं न तु कर्मत्वादिपदस्य, घटादिपदसत्त्वेऽपि स्वत एव तस्याननुभावकत्वादिति घटमित्यादावाकांक्षा, न तु घटः कर्मत्वमित्यादाविति, योग्यता चैकपदार्थेऽपरपदार्थसंसर्गवत्त्वम्, न चैकविध्यर्थयोः कृतीष्टसाधनत्वयोः परस्परमन्वयो न स्यादुक्तयोग्यताविरहादिति वाच्यम्, एकवृत्तिविषयेऽपरवृत्तिविषयसंसर्गवत्त्वस्यैव तदर्थत्वात् । आसत्तिस्तु एकपदार्थोपस्थित्यव्यवधानेनापरपदार्थोपस्थितिः, अव्यवधानं व्यवधानाभावः, तेन युगपन्नानापदार्थोपरस्थितावपि न क्षतिः, तच्चार्थसिद्ध, तत्तत्पदार्थशाब्दबुद्धौ तत्तत्पदार्थोपस्थितेर्हेतुतया विनाऽव्यवहितोपस्थिति शाब्दबोधासम्भवात् । ननु वर्णानां समुदायः पदं, तत्समुदायो वाक्यमित्युक्तं, तत्र व्यस्तानामर्थप्रतिपादकत्वे वर्णेनैकेनैव गवाद्यर्थप्रतिपत्तौ द्वितीयादिवर्णोच्चारणानर्थक्यापत्तिः, तत्समुदायोऽपि च न सम्भवति, क्रमोत्पन्नानामनन्तरविनष्टत्वेन समुदायासम्भवात्, न च युगपदुत्पन्नानां तेषां तत्सम्भावना युक्ता, एकपुरुषापेक्षया युगपदुत्पादासम्भवात् प्रतिनियतस्थानकरणप्रयत्नप्रभवत्वात्तेषाम् । भिन्नभिन्नपुरुषप्रयुक्तगकारौकारविसर्जनीयानां नहि समुदायार्थप्रतिपादकत्वं दृष्टम् । न चान्त्यो वर्णः पूर्वपूर्ववर्णानुगृहीतोऽर्थप्रत्यायक इति साम्प्रतम्, पूर्ववर्णानामन्त्यवर्णं प्रत्यनुग्राहकत्वायोगात् । अनुग्राहकत्वं हि न जनकत्वं वर्णाद्वर्णोत्पत्तेरभावात् नियतस्थानादिसम्पाद्यत्वाद्वर्णानाम् । नाप्यर्थज्ञानोत्पत्तौ सहकारित्वं, अविद्यमानानां सहकारित्वानुपपत्तेः, नवा पर्ववर्णानुभवजास्संस्कारास्तत्सहायतां प्रतिपद्यन्ते, संस्काराणां स्वोत्पादकविषयस्मृतिहेतुत्वादिति चेन परिमितसंख्यानां पुद्गलद्रव्योपादानापरित्यागेनैव परिणतानामश्रावणस्वभावपरित्यागव्याप्तश्रावणस्वभावानां विशिष्टानुक्रमयुक्तानां वर्णानां वाचकत्वाच्छब्दत्वाभ्युपगमात् । सोऽपि क्रमो वर्णेभ्यो नार्थान्तरमेव, वर्णानुविद्धस्य प्रतीतेः,