________________
२१५
द्वितीयो भाग / सूत्र - १०-११-१२, पञ्चमः किरणे तथा च तस्यासाध्यत्वेन तद्विशिष्टधर्मिणः पक्षाभासत्वमेवेति भावः । अस्यैव च सिद्धसाधनं । प्रसिद्धसम्बन्ध इत्यपि संज्ञाद्वयमस्तीत्याहेदमेवेति, विधेयप्राधान्यान्नपुंसकत्वं, प्रतीतसाध्यधर्मविशेषणकः पक्षाभास एवेत्यर्थः, अपिशब्दोऽनुक्तस्य प्रसिद्धसम्बन्धस्य समुच्चायकः ॥
પ્રથમ પક્ષાભાસનું ઉદાહરણ ભાવાર્થ – “પ્રથમ પક્ષાભાસનું દૃષ્ટાન્ત છે. જેમ કે-રસોડું અગ્નિવાળું છે. આ પ્રમાણે અહીં પક્ષીભૂત રસોડામાં અગ્નિ પ્રસિદ્ધ હોઈ આ દોષ છે. તે સિદ્ધસાધન પણ કહેવાય છે.”
विवेयन - पहेली-प्रतीतसाध्यविशेष: ५६मास. 'प्रसिद्धत्वादिति' प्रत्यक्ष निर्यात अर्थमा ન્યાય(અનુમાનના અવયવ)ની અપ્રવૃત્તિ છે. તથાચ તે નિર્ણિતનું અસાધ્યપણું હોઈ, તે નિર્ણિત સાધ્યધર્મવિશિષ્ટ ધર્મીનું પક્ષના આભાસપણું જ છે; અને આ પક્ષાભાસની જ સિદ્ધસાધન અને प्रसिद्धसंघ-सेवी संशा छे. भाटे हे छ 3 'इदमेवेति । मह विधेयनी प्रधानतानी अपेक्षा નપુંસકપણું છે. પ્રતીતસાધ્યધર્મવિશેષણક પક્ષાભાસ જ, એવો અર્થ છે. અપિ શબ્દ, નહીં કહેલ પ્રસિદ્ધ સંબંધનો સંગ્રાહક છે.
द्वितीयभेदं निदर्शयति -
द्वितीयो यथा वह्निरनुष्ण इति प्रत्यक्षेण निराकृतसाध्यधर्मविशेषणकः । अपरिणामी शब्द इति पक्षः परिणामी शब्द इत्यनुमानेन तथा । धर्मोऽन्ते न सुखप्रद इति धर्मोऽन्ते सुखप्रद इत्यागमेन तथा । चैत्रः काण इति पक्षो विद्यमानाक्षिद्वयस्य
चैत्रस्य सम्यक्स्मरतस्स्मरणेन तथा । सदृशे वस्तुनि तदेवेमिति पक्षस्तेन तुल्यमिदमिति प्रत्यभिज्ञया तथा ॥ १२ ॥
द्वितीय इति । निराकृतसाध्यधर्मविशेषणक इत्यर्थः, निराकरणस्यात्र प्रत्यक्षानुमानागमस्मरणप्रत्यभिज्ञानतर्कलोकस्ववचनैर्विवक्षितत्वेन तत्क्रमेणैव निदर्शनान्यभिधत्ते यथा वह्निरिति । प्रत्यक्षेणेति, उष्णत्वविषयकत्वाचप्रत्यक्षेणेत्यर्थः । अनुमाननिराकृतसाध्यधर्मविशेषणकमाह । अपरिणामीति । परिणामी शब्द इति, अर्थक्रियाकारित्वं कृतकत्वमुत्पत्तिमत्त्वं वात्र हेतुः । अर्थक्रियाकारित्वादेर्घटे परिणामित्वसत्त्व एवोपलम्भाच्छब्द उपलभ्यमानं तत् परिणामित्वं साधयतीति शब्दोऽपरिणामीति पक्ष आभास एवेति भावः, यद्यपि शब्दोऽपरिणामीत्यनुमानस्यानुमानेन बाधनं न सम्भवति सत्प्रतिपक्षापातात्तथापि स्वकीयानुमानस्य बलवत्त्वादयं व्यपदेशो युज्यत एवेति । तथेति, निराकृतसाध्यधर्मविशेषणक इत्यर्थः, एवमग्रेऽपि । आगमनिराकृतसाध्यधर्मविशेषणकमाह धर्म इति, अन्त इति प्रेत्येत्यर्थः । आगमेनेति, तत्र हि धर्मस्याभ्युदयनिःश्रेयसहेतुत्वं तद्विपरीतत्वञ्चाधर्मस्य प्रतिपाद्यत इति भावः ।