________________
द्वितीयो भाग / सूत्र - ३६-३७, चतुर्थः किरणे
रणे
१८९ परार्थानुमानस्वरूपमाह - वचनसापेक्षं विशिष्टसाधनात्साध्यविज्ञानं परार्थम् । उपचाराद्वचनमपि परार्थम् ॥३७॥
वचनसापेक्षमिति । स्वस्मिन्निश्चितस्यानुमानस्य परं प्रति प्रबोधयितुं वचनमन्तरेणासम्भवाद्वचनसापेक्षं यन्निश्चितव्याप्तिमत्साधनप्रयोज्यं साध्यविज्ञानं तत्परव्यामोहनिवर्तनक्षमत्वात्परार्थानुमानमिति भावः । ननु वचनप्रयोगप्रयुक्तनिश्चितव्याप्तिकसाधनजन्यसाध्य विज्ञानस्यैव परार्थत्वे तत्त्वेन पक्षादिप्रतिपादकवचनानां कथनं प्राचामसङ्गतं स्यादित्यत्राहोपचारादिति, नेदं वचनं निरुपचरितपरार्थानुमानमचेतनत्वात् किन्तु मुख्यानुमानहेतुत्वेन परार्थं तदपि स्यात् कारणे कार्यस्य समारोपात्, अनुमानतोऽयं मयाऽवबोधनीय इत्यभिप्रायवत्पुरुषप्रयुक्तपक्षादिवचनेन हि श्रोतुः परस्य व्याप्तिविशिष्टहेतुस्मरणादिद्वारा साध्यविज्ञानमनुमानात्मकमुदेति । ननूपचारस्तत्र भवति यत्र मुख्यबाधः प्रयोजनं सम्बन्धश्च भवेदत्र कथमुपचारत्वमिति चेन्न ज्ञानमेव हि प्रमाणं, तत्कथं जडरूपं वचनं परार्थानुमानरूपं प्रमाणं भवेदतोऽस्ति ज्ञानं प्रमाणमिति मुख्यस्य बाधः, कारणान्तरवैलक्षण्येन कार्यकारित्वमस्य प्रयोजनम्, पक्षादिवचनवदन्यस्य कस्यापि परस्यानुमानजनकताया अप्रसिद्धः । सम्बन्धोऽपि कार्यकारणभावरूपो वर्त्तत एव, अनुमानतोऽयं मयाऽवबोधनीय इतीच्छया वक्ता पक्षादिवचनं प्रयुके, श्रोतापि एतद्वचनश्रवणद्वारा व्याप्तिमल्लिङ्गादमुमर्थमवबुद्धवानिति मन्यत इति श्रोतुः प्रतीतिकारणत्वमस्तीति भावः ॥
પરાર્થ અનુમાન સ્વરૂપનું વર્ણન ભાવાર્થ – “વચનની અપેક્ષાવાળું વિશિષ્ટ સાધનથી સાધ્યવિજ્ઞાન, એ પરાર્થ અનુમાન છે. ઉપચારથી વચન પણ પરાર્થ અનુમાન કહેવાય છે.”
વિવેચન – પોતાના નિશ્ચિત અનુમાનને બીજા પ્રત્યે જણાવવું, વચન સિવાય અસંભવિત હોઈ, વચનની અપેક્ષાવાળું જે નિશ્ચિત વ્યાપ્તિવાળું સાધનજન્ય, સાધ્યવિજ્ઞાન, તે પરના વ્યામોહના નિવર્તનમાં સમર્થ હોવાથી પરાર્થ અનુમાન છે.
શંકા – વચનપ્રયોગથી, પ્રયુક્ત નિશ્ચિત વ્યાપ્તિવાળા સાધનથી જન્ય સાધ્યવિજ્ઞાન જ પરાર્થ તરીકે હોઈ, પરાર્થપણાએ પક્ષ આદિ પ્રતિપાદક વચનોનું કથન પ્રાચીનોનું અસંગત થશે જ ને?
समाधान - सवयन, ७५२ २५२रार्थ अनुमान नथी, 34 3-अयेतन-४ छे. परंतु मुख्य અનુમાનનું હેતુ હોઈ તે પણ પરાર્થ અનુમાન થાય!
१. एतेन नास्यानुमानवचनस्यानुवादमात्रता, इतरानधिगतार्थोपदेशकत्वात्, अन्यथाऽप्तवचनस्यापि अनुवादमात्रत्वं स्यात्, इदानीं स्वावगतार्थबोधकत्वादिति सूचितम् ॥