________________
१२२
तत्त्वन्यायविभाकरे क्रमेण प्रत्यभिज्ञानस्य दृष्टान्तानाह
तत्रैकत्वविषयं स एवायं देवदत्त इत्यादिज्ञानम् । सादृश्यविषयकं गोसदृशो गवय इत्यादि, अत्रैवोपमानस्यान्तर्भावः । वैलक्षण्यविषयकं गोविसदृशो महिष इत्यादि, प्रतियोगित्वविषयकञ्चेदं तस्माद्दूरं समीपमल्पं महद्वेत्याधुदाहरणानि बोध्यानि । इति प्रत्यभिज्ञाननिरूपणम् ॥३॥
तत्रेति । ईदृशे प्रत्यभिज्ञान इत्यर्थः, इत्यादिज्ञानमिति, तद्देशतत्कालवर्तिदेवदत्तैतद्देशैतत्कालवर्त्तिदेवदत्तयोश्च पूर्वापरपर्यायव्यापिदेवदत्तद्रव्यात्मकोर्ध्वतासामान्यमवलम्ब्यैकत्वं विषयी क्रियते, प्रत्यभिज्ञापरिच्छेद्यस्यैकत्वस्याभावे पूर्वोत्तरपर्यायवाकजीवासिद्धया बन्धमोक्षव्यवस्थैव न स्यात् बद्धस्यैव मुक्तत्वे हि विभाव्यात्मानं दुःखितं परमसुखप्राप्तये दुःखविगमोपाये प्रवर्त्तते, अन्यथाऽन्यस्य सुखार्थं किमर्थमन्य उद्युञ्जीतेति भावः । सादृश्यविषयकं तदुदाहरति सादृश्येति, गोसदृश इति, सादृश्यविशिष्टे पिण्डे स्मृते च गवि संकलनात्मकं गोसदृशो गवय इति ज्ञानमुपजायते, इदञ्च तिर्यक्सामान्यविषयकं, तिर्यक्सामान्यञ्चात्र सदृशपरिणामात्मकमिति भावः । ननु गोदर्शनजन्यसंस्कारवतः प्रमातुः कालान्तरे गवयदर्शनगोस्मरणाभ्यामुपजायमानस्य तत्सदृशोऽयमिति ज्ञानस्योपमानत्वरूपं प्रमाणान्तरमेवोचितं न तु प्रत्यभिज्ञानत्वं तस्यैकत्वमात्रविषयकत्वादिति परस्याकांक्षायामाहात्रैवोपमानस्यान्तर्भाव इति । तथा च सादृश्यविशिष्टपिण्डस्य दृष्टस्य स्मृतस्य गोश्च सङ्कलनात्मकस्य गोसदृशो गवय इति ज्ञानस्य प्रत्यभिज्ञानतानतिक्रमात् । स एवायमित्यादिरूपा यथा पूर्वपर्यायेणोत्तरपर्यायस्यैकताविषयिणी प्रतीतिः सङ्कलनात्मकत्वात् प्रत्यभिज्ञानं तथैव गोसदृशो गवय इत्यपि प्रतीतिः प्रत्यभिज्ञानमेव, सङ्कलनात्मकत्वाविशेषात्, यद्येकत्वमात्रविषयकं तत् न तु सादृश्यादिविषयकमित्युच्यते तर्हि सादृश्यज्ञानस्योपमानत्वात्मकप्रमाणान्तरत्ववत् गोविधर्मा महिष इत्यादिरूपवैसादृश्यज्ञानस्यापि प्रमाणान्तरत्वं स्यात्, न च वैसादृश्यज्ञानमुपमानान्तर्गतम्, तस्य सादृश्यमात्रविषयकत्वात्, इष्टापत्तौ तव प्रमाणसंख्याव्याघातस्स्यात् । न च वैसादृश्यं सादृश्याभावस्तथा चाभावविषयकत्वेनानुपलब्धिप्रमाणान्तर्गतत्वान्न प्रमाणसंख्या व्याहन्यत इति वाच्यम्, तथा च सति सादृश्यस्यापि वैलक्षण्याभावरूपत्वेनाभावविषयकतया तत्रैवान्तर्गतत्वेनोपमा प्रमाणाभावप्रसङ्गः स्यादिति . १. ननु सादृश्यं न वैलक्षण्याभावमात्रं, किन्तु समानधर्मयोग एवेति नोपमानोच्छेद इति चेन्न, वैलक्षण्यस्यापि विसदृशधर्मयोगरूपत्वेन सादृश्याभावमात्ररूपत्वासम्भवादिति ॥