________________
११४
तत्त्वन्यायविभाकरे स्यादित्यत्राह प्रबोधस्सहकारीति । तथा चोबुद्ध एव संस्कारः स्मृतिजनको न केवल: संस्कारः तस्योद्बोधकश्चावरणक्षयोपमसदृशदर्शनादिसामग्रीति भावः । ननु स्मर्यमाणस्यार्थस्याभावेन निरालम्बना स्मृतिः स्यादित्याकांक्षायामाह पूर्वानुभूतेति । पूर्वमनुभूतो यो विषयस्तेनैवास्याः सविषयत्वेन न निरालम्बनत्वमिति भावः । ननु स्मृतिर्न प्रमाणमतीतेऽर्थे उत्पद्यमानत्वात् गृहीतग्राहित्वात्, अर्थादनुत्पद्यमानत्वात्, विसंवादकत्वात्, प्रयोजनाप्रसाधकत्वाच्चेत्याकांक्षायामाहार्थाविसंवादकत्वाच्चेति, चशब्दः पूर्वोदितस्य पूर्वानुभूतविषयिणीति हेतुगर्भविशेषणस्यापि संग्राहकः । तथा च विसंवादकत्वं स्मृतेरसिद्धं, स्वप्रतिपन्ने धृतद्रव्याद्यर्थेऽविसंवादकत्वात् यत्र तु विसंवादस्स प्रत्यक्षाभासवत्स्मरणाभास एव । अनुभूतार्थेन सविषयकत्वादेवार्थादनुत्पद्यमानत्वमप्यसिद्धं स्वविषयानुभूतार्थादुत्पद्यमानत्वात्, अनुभवप्रमात्वपारतंत्र्यादस्या अप्रमात्वमिति चेदनुमितेरपि व्याप्तिज्ञानप्रमात्वपारतंत्र्येणाप्रमात्वप्रसङ्गः स्यात् । नाप्यतीतेऽर्थे प्रवर्त्तमानत्वादप्रमाणत्वं, अतीतार्थस्य हि किं स्वकालेऽसत्त्वं स्मृतिकाले वा, नाद्यः तस्य विद्यमानत्वात्, न द्वितीयः तस्याप्रामाण्यासाधकत्वात् योगिप्रत्यक्षकाले विषयाभावेऽपि प्रवर्त्तमानस्य तस्य प्रमाणत्वात् । नापि गृहीतग्राहित्वादप्रमाणं, अनुमानेनाधिगते वह्नौ तदुत्तरकालभाविनः प्रत्यक्षस्याप्रमाणताप्रसङ्गात्, वर्तमानकालावच्छेदेनाधिगतस्यार्थस्यातीतकालावच्छेदेनाधिगतेरगृहीतग्राहित्वाच्च । न च वर्तमानकालावच्छिन्नत्वविशिष्टेऽतीतकालावच्छिन्नत्वस्य स घटोऽस्तीत्यादौ भानादतीतकालवर्त्तित्वरूपायां वा तत्तायामेतत्कालीनपदार्थवृत्तित्वस्य वा भानेनाप्रमाणत्वमिति वाच्यम्, विशेषणे सर्वत्र विशेष्यकालभाननियमस्यानभ्युपगमात् वर्तमानकालीनत्वविशिष्टे चातीतकालीनत्वभानानभ्युपगमाच्च किन्तु वर्तमानकालीनत्वातीतकालीनत्वयोस्स्वातंत्र्येणैव भानाभ्युपगमात् । प्रत्यभिज्ञानादिप्रवृत्तिनिहितधनादिप्राप्तिलक्षणप्रयोजनसाधकत्वेन प्रयोजनाप्रसाधकत्वमप्रसिद्धमेवेति भावः ॥
અથ અનુમાનપરિકર નામક તૃતીય કિરણ અવસરપ્રાપ્ત, મતિ-શ્રુતના કાર્યભૂત અને પ્રત્યભિજ્ઞા આદિ પ્રત્યે હેતુભૂત સ્મૃતિનું નિરૂપણ કરે છે.
भावार्थ - "अनुमप मात्र ४न्य शान, भे 'स्मृति.' सेभ -ते. घ2 5त्या. म प्राय: री તત્પદનો ઉલ્લેખ કરાય છે. અહીં અનુભવ પ્રમાણરૂપ છે. આત્મશક્તિરૂપ સંસ્કારદ્વાર છે. પ્રબોધ
१. सम्बन्धस्मरणादेाप्तिप्रत्यभिज्ञादिफलोपयोगे प्रामाण्यमेव, फलीभूतस्मृतेरपि विषयबाधाभावादेव याथार्थ्यं दुर्निवारं, तस्याः प्रमात्वस्यानुभवप्रमात्वपारतंत्र्येऽपि व्याप्तिज्ञानप्रमात्वपरतंत्रानुमितिप्रमात्ववदविरोधात् ॥