________________
तृतीयः किरणः
अथावसरप्राप्तां मतिश्रुतकार्यभूतां स्मृति प्रत्यभिज्ञादिहेतुभूतां निरूपयति
अनुभवमात्रजन्यं ज्ञानं स्मृतिः । यथा स घट इत्यादि, अत्र प्रायेण तत्तोल्लिख्यते । अनुभवोऽत्र प्रमाणरूपः । आत्मशक्तिरूपसंस्कारो द्वारम् । प्रबोधस्सहकारी । पूर्वानुभूतविषयिणीयम् । अर्थाविसंवादकत्वाच्चास्याः प्रामाण्यम् । इति स्मृतिनिरूपणम् ॥१॥
अनुभवमात्रेति । अत्र धारणात्वेन सङ्गृहीताऽविच्युतिस्संस्कारो वाऽनुभवपदेन ग्राह्यः, तत्र संस्कारस्साक्षात्स्मृति प्रति हेतुरविच्युतिस्तु संस्कारद्वारेति विशेषः, अनुभवेतराजन्यत्वे सति अनुभवजन्यत्वे सति ज्ञानत्वं लक्षणार्थः, आद्यं सत्यन्तं प्रत्यभिज्ञानादिव्युदासाय द्वितीयमवग्रहादिव्युदासाय, अनुभवध्वंसेऽतिव्याप्तिवारणाय ज्ञानत्वमिति । अत्र निदर्शनमाह यथेति, ननु स घट इत्याकारप्रदर्शनेन स्मरणमात्रं तत्तोल्लेखशालीति प्राप्तं, तथा च सति 'यावता स्मरसि चैत्र ! काश्मीरेषु वत्स्यामस्तत्र द्राक्षा भोक्ष्यामहे' इत्यादिस्मरणानां तच्छब्दोल्लेखाभावेन स्मरणरूपता न स्यादित्याशङ्कायामाहात्रेति, प्रायेणेत्यनेन तदित्युल्लेखयोग्यतावत्त्वमपेक्षितमिति सूच्यते, उक्तस्थलेषु तद्योग्यताऽस्त्येव, 'तेषु काश्मीरेषु' इत्यपि वक्तुं शक्यत्वादिति भावः । अप्रमाणभूतानुभवेनापिस्मरण सम्भवात्तद्व्युदासायाहानुभवोऽत्रेति, एतल्लक्षणघटकीभूतानुभवः प्रमाणरूपो ग्राह्यः, अन्यथाऽनुभवसामान्यविवक्षणे भ्रमात्मकानुभवजन्यभ्रान्तस्मरणस्यापि ग्रहणे स्मृतित्वावच्छेदेन प्रामाण्यबोधकेनाग्रेतनवाक्येन विरोधस्स्यादिति भावः । नन्वविच्युतेस्स्मरणहेतुत्वे तस्यान्तर्गौहूर्तिकत्वेन कालान्तरभाविस्मृति प्रति हेतुत्वं कथं स्यादित्यवाहाऽऽत्मशक्तीति, न साक्षात्तस्याः स्मृति प्रति हेतुत्वमभिमतं येन प्रोक्तदोषस्स्यादपि तु संस्कारद्वारेति ब्रूमः, स च संख्येयासंख्येयकालवर्तीति न दोष इति भावः । न चात्मशक्तिरूपसंस्कारस्य तावत्कालमानस्य सर्वदा सद्भावेन सततं स्मरणं