________________
१००
तत्त्वन्यायविभाकरे
लक्षणे मत्यपेक्ष इत्यनुक्त्वा मतिज्ञानापेक्ष इत्युक्तः, लब्धितस्तुल्यकालयोः कार्यकारणभावाभावात्, यदपि परशब्दाकर्णनान्मतिज्ञानमुदेति तदपि द्रव्यश्रुतनिमित्तकमेव न भावश्रुतनिमित्तकमतो न मतिज्ञानस्य श्रुतज्ञानकारणकत्वम् । श्रुतोपयोगाच्च्युतस्य मतिज्ञानन्तु न श्रुतोपयोगनिमित्तकं किन्तु स्वकारणप्रभवमेव । अन्यथा कारणनैयत्याभावप्रसङ्गस्स्यात् । तथा स्वस्वावान्तरभेदात्तयोर्भेदः, मतिज्ञानं हि अष्टाविंशतिविधमुक्तं, श्रुतज्ञानं चतुर्द्दशविधमिति वक्ष्यते, तयोरभेदेऽवान्तरभेदवैलक्षण्यं न भवेदेवेति तयोर्भेदः, इन्द्रियविभागादपि तयोर्भेदः, श्रुतं हि श्रोत्रेन्द्रियद्वारकमवग्रहाद्यनात्मकं ज्ञानं, मतिज्ञानं च सर्वेन्द्रियद्वारकम्, यद्यपि शेषेन्द्रियद्वाराऽक्षरलाभोऽपि श्रुतमेवेति सर्वेन्द्रियविषयत्वं श्रुतस्य प्राप्तं तथाप्यक्षरलाभमात्रस्य न श्रुतत्वमीहादीनामपि तथात्वापत्तेरपि तु श्रुतानुसारिसाभिलापरूपाक्षरलाभस्यैव, तस्य च शेषेन्द्रियद्वारोत्पन्नत्वेऽपि योग्यतया श्रोत्रेन्द्रियोपलब्धित्वमेव, अभिलापस्य सर्वस्यापि श्रोत्रेन्द्रियग्रहणयोग्यत्वात् । तथा च श्रोत्रविषयमेव सर्वं श्रुतज्ञानं मतिज्ञानन्तु तद्विषयं शेषेन्द्रियविषयञ्चेति । वल्कशुम्बोदाहरणात्तयोर्भेदस्तु - मतिपूर्वं हि भावश्रुतं मतिश्च वल्कसमा, भावश्रुतं शुम्बसदृशं यथा वल्काः शुम्बकारणं तथा मतिरपि भावश्रुतस्य, यथा च शुम्बं वल्कानां कार्यं तथा भावश्रुतमपि मतेः कार्यं मत्या विचिन्त्य वाच्यवाचकभावेन वस्तुनि परोपदेश श्रुतग्रन्थानां योजनात् । अक्षरानक्षरभेदादपि तयोर्भेदः अक्षरं द्विविधं द्रव्याक्षरं भावाक्षरञ्चेति, पुस्तकादिन्यस्ताकारादिस्ताल्वादिकारणजन्यशब्दो वा द्रव्याक्षरम् अन्त:स्फुरदकारादि-वर्णज्ञानं भावाक्षरं भावाक्षरापेक्षया मतिज्ञानमक्षरवत् यथेहादयः, भावाक्षराभावादेवावग्रहरूपं मतिज्ञानमनक्षरम् । द्रव्याक्षरमाश्रित्य तु मतिज्ञानमनक्षरमेव, द्रव्यमतित्वेनाप्रसिद्धत्वात् । श्रुतज्ञानन्तु द्रव्यभावभेदं साक्षरमनक्षरमपि द्रव्यश्रुतं उच्छ्वसितनिःश्वसितादिरूपमनक्षरं पुस्तकादिन्यस्ताक्षररूपं शब्दरूपं च तदेव साक्षरम् । श्रुतानुसार्यकारादिवर्णविज्ञानात्मकत्वात्साक्षरं पुस्तकादिन्यस्ताकाराद्यक्षररहितत्वाच्छब्दाभावाच्चानक्षरम् । पुस्तकादिन्यस्ताक्षरस्य शब्दस्य च द्रव्यश्रुतान्तर्गतत्वेन भावश्रुतेऽसत्त्वात् । मूकेतरभेदात्तु तद्भेदः - द्रव्यश्रुतं हि श्रुतज्ञानस्यासाधारणं कारणं तच्च
I
भावश्रुतमपि
१. अत्र श्रोत्रेन्द्रियोपलब्धिरेव श्रुतमित्ययोगव्यवच्छेदोऽभिमतः, न तु श्रोत्रेन्द्रियोपलब्धिश्श्रुतमेवेत्यन्ययोगव्यवच्छेदः, कस्याश्चिच्छ्रोत्रेन्द्रियोपलब्धेरवग्रहादिमात्ररूपाया मतिज्ञानत्वादित्याशयेन शेषेन्द्रियद्वारकमित्यनुक्त्वा सर्वेन्द्रियद्वारकमित्युक्तम् ॥ २. तथा च मतिज्ञानमवग्रहापेक्षयाऽनक्षरवत् । ईहाद्यपेक्षया चाक्षरवत् । द्रव्याक्षरापेक्षया चानक्षरवदेव, नहि मतिज्ञाने पुस्तकादिन्यस्ताकारादिकं शब्दो वा व्यञ्जनाक्षरं विद्यते तस्य द्रव्यश्रुतत्वेन प्रसिद्धत्वादिति भावः ॥ ३. अत्रेदं बोध्यं मतेर्भावश्रुतस्य चाक्षरानक्षरकृतो विशेषो नास्ति, उभयस्य साक्षरत्वादनक्षरत्वाच्च, परन्तु श्रुतमध्ये द्रव्यश्रुतस्याप्यन्तर्भावेण द्रव्यश्रुतमाश्रित्य द्रव्याक्षरमस्ति मतौ तु तन्नास्तीति भेदो विज्ञेय इति ॥