________________
द्वितीयो भाग / सूत्र - ३२, द्वितीय किरणे
९९
पूछा ४२वानीने ४३२ नथी, में 'ध्रुवसाही' अने पुन: पुन: 6शनी अपेक्षा छ, ते 'माडी'.] અહીં સઘળા જ્ઞાનોમાં ક્ષયોપશમનો ઉત્કર્ષ અને અપકર્ષ-એમ બે નિમિત્ત થાય છે. શું શ્રુતજ્ઞાનમાં પણ અવગ્રહ આદિરૂપ ભેદ ખરો? આ પ્રશ્નના જવાબમાં કહે છે કે-મતિજ્ઞાનના અભાવમાં શ્રુતજ્ઞાનનો અભાવ હોવાથી, વિશેષ વિષયવાળા તે શ્રુતજ્ઞાનમાં અવગ્રહનો અસંભવ હોઈ, ઈહા આદિનો પણ અસંભવ હોવાથી “શ્રુતજ્ઞાન'માં તો અવગ્રહ આદિ હોતા નથી.
तर्हि किन्तच्छुतज्ञानमित्यत्राह
मतिज्ञानापेक्षो वाच्यवाचकभावपुरस्कारेण शब्दसंस्पृष्टार्थग्रहणविशेषः श्रुतज्ञानम् । तदनुकूलोपयोगोऽपि श्रुतम् ॥ ३२ ॥ - मतिज्ञानेति । मतिज्ञानसापेक्षत्वे सति वाच्यवाचकभावपूर्वकशब्दसंस्पृष्टार्थग्रहणत्वं श्रुतज्ञानस्य लक्षणम्, ईहादीनां शब्दसंस्पृष्टार्थग्रहणरूपत्वादवग्रहात्मकमतिज्ञानापेक्षत्वाच्च श्रुतत्ववारणाय वाच्यवाचकभावपुरस्कारेणेत्युक्तम् । मतिज्ञानापेक्ष इति पदेन धारणा ग्राह्या, श्रुतं प्रति धारणात्वेन हेतुत्वात्तथा च नेहादावतिव्याप्तिरिति चेत्तर्हि स्मृतावतिव्याप्तिवारणाय तत् । एकेन्द्रियाणामपि द्रव्यश्रुताभावे सत्यपि भावश्रुतमस्ति क्षायोपशमिकत्वात्, न च तर्हि लक्षणमव्याप्तं तत्र वाच्यवाचकभावपूर्वकं शब्दसंस्पृष्टार्थग्रहणरूपत्वाभावादिति वाच्यम्, विशिष्टश्रुतज्ञानस्यैव लक्षणत्वात्, मतिज्ञानापेक्षवाच्यवाचकभावपूर्वकशब्दसंस्पृष्टार्थग्रहणवृत्तिज्ञानत्वव्याप्यजातिमत्त्वस्य वा लक्षणार्थत्वात्, तादृशी जातिः श्रुतज्ञानत्वं तच्च सर्वस्मिन् श्रुतज्ञाने वर्त्तत इति न कुत्राप्यव्याप्तिः । ननु श्रुतोपयोगो मत्युपयोगान्न पृथक्, मत्युपयोगेनैव तत्कार्योत्पत्तौ तत्पार्थक्यकल्पनाया व्यर्थत्वादित्याकांक्षायामाह तदनुकूलोपयोगोऽपीति, श्रुतज्ञानेऽनुकूलभूत उपयोगोऽपीत्यर्थः, श्रुतोपयोगोपरमेऽपि मतिज्ञानोदयान्न मत्युपयोगश्रुतोपयोगयोरैक्यमिति भावः । अत्र यद्यपि स्वामिकारणकालविषयपरोक्षत्वैर्मतिश्रुतयोरेकत्वं तथापिलक्षणभेदात्कार्यकारणभावाद्भेदविशेषादिन्द्रियविभागाद्वल्केतरभेदादक्षरेतरभेदान्मूकेतरभेदाच्च भेदोऽवसेयः, तथाहि-निरुक्तरूपेण लक्षणभेदान्मतिश्रुतयोर्भेदः । कार्यकारणभावात्तयोर्भेदः, मतिज्ञानापेक्षं हि श्रुतं न मतिश्श्रुतज्ञानापेक्षिणी, उपयोगरूपयोस्तयोस्तथैव पौर्वापर्यात्, कार्यकारणयोश्च कथञ्चिद्भेदात्, लब्धिंतो मतिश्रुते समकालेऽपि भवतोऽत एव
१. अवग्रहादिकं विना श्रुतज्ञानानुदयेन तत्पूर्वं मतिज्ञानरूपस्य तस्यावश्यम्भावादिति भावः ॥ २. मतिज्ञानसमानकाले श्रुतज्ञानेऽभ्युपगम्यमाने तदा श्रुतज्ञानं जीवस्य प्रसज्यते, श्रुतज्ञानोत्पत्तिमन्तरेण तदज्ञानानिवृत्तेः न च ज्ञानाज्ञानयोस्समानकालमवस्थितियोग्ययोर्मतिश्रुतयोः क्वचिदप्यागमेऽनुमन्यत इत्याशयेनाह लब्धित इति ॥