________________
द्वितीयो भाग / सूत्र - ३१, द्वितीय किरणे ૦ પૂર્વ ઉપલબ્ધ અર્થના ઉપલંભમાં ધારણાકૃત શ્રુતજ્ઞાનજનિત વાસનાના પ્રબોધનો અન્વય હોવાથી શ્રુતનિશ્ચિતપણું આવશ્યક છે.
૦ ધારણા આદિ રહિત એકેન્દ્રિય આદિમાં તો આહાર આદિ સંજ્ઞાની અન્યથાનુપપત્તિથી આંતરિક ઉચ્ચારણરૂપ અન્તર્જલ્પના આકારવાળું વિવક્ષિત અર્થવાચક શબ્દ સંસ્કૃષ્ટાર્થજ્ઞાનરૂપ શ્રુતજ્ઞાન, ક્ષયોપશમ માત્રથી જનિત જાત્યંતરરૂપ જ છે, એમ જાણવું.
अथ मतिज्ञानस्य यावत्प्रकारान् दर्शयति
इदञ्च प्रत्येकेन्द्रियैर्मनसा चावग्रहादिक्रमेण जायमानत्वाच्चतुर्विंशतिविधम् । रसनादीन्द्रियैश्चतुभिरेव चतुर्विधा व्यञ्जनावग्रहा भवन्ति, न चक्षुर्मनोभ्यां, विषयेन्द्रियसंश्लेषाभावात् । स्पर्शनादीन्द्रियाणामुपकरणात्मकानां स्पर्शाद्याकारेण परिणतपुद्गलानाञ्च यः परस्परं संश्लेषस्सा व्यञ्जनेत्युच्यते । सोऽयं चतुर्विधो व्यञ्जनावग्रह इति मिलित्वाष्टाविंशतिविधं मतिज्ञानम् । श्रुतज्ञाने तु नावग्रहादयो भवन्ति ॥ ३१ ॥
इदञ्चेति, मतिज्ञानञ्चेत्यर्थः । प्रत्येकेन्द्रियैः-प्रत्येकं चक्षूरसनघ्राणत्वक्त्रोत्रेन्द्रियैः, अवग्रहादिक्रमेणेति, चक्षुरवग्रहश्चक्षुरीहा चक्षुरपायश्चक्षुर्धारणेत्येवंक्रमेणेत्यर्थः । तत्रावग्रहस्य व्यञ्जनार्थावग्रहरूपेण द्वैविध्यात्पूर्वोक्तावग्रहस्यार्थावग्रहरूपत्वेन व्यञ्जनावग्रहं वक्ति रसनादीति, आदिना घ्राणत्वक्श्रोत्राणां ग्रहणम् । चतुभिरेवेत्यत्रैवशब्दव्यवच्छेद्यमाह नेति । तत्र निबन्धनमाह विषयेति । निश्चयतः कार्योत्पत्तावविकलकारणस्यैव व्याप्यत्वेन ज्ञाने उपयोगेन्द्रियस्यैवाविकलकारणत्वेन व्यञ्जनावग्रहकालेऽव्यक्ततया तत्सत्त्वात्तदा ज्ञानमवश्यं भवत्येवेति व्यञ्जनावग्रहोऽयं ज्ञानात्मा कारणांशो बोध्यः । व्यञ्जनां स्वरूपयति स्पर्शनादीन्द्रियाणामिति, आदिना श्रोत्रघ्राणरसनानां ग्रहणम् । ननु व्यञ्जनावग्रहः प्राप्यकारिणामेवेन्द्रियाणां न त्वप्राप्यकारिणां तत्र कः कारणांशः, यद्यार्थावग्रहस्तहि स एव व्यञ्जनावग्रहस्थलेऽप्यस्तु इति चेन्न तत्रापि प्रागर्थावग्रहाल्लब्धीन्द्रियस्य ग्रहणोन्मुखपरिणामस्यैव कारणांशतयाऽभ्युपगमात् । निगमयति मतेर्भेदं सोऽयमिति । अष्टाविंशतिविधमिति, उपलक्षणमेतत्, तेन स्वस्वप्रतिपक्षसहितैर्बहुबहुविधक्षिप्रानिश्रितनिश्रितध्रुवैः प्रत्येकं भिन्नानामेषां षट्त्रिंशदधिकत्रिशतविधत्वेऽपि न क्षतिः, अत्र सर्वत्र क्षयोपशमस्योत्कर्षापकर्षों निमित्ते भवत इति । किं श्रुतज्ञानेऽप्यवग्रहादिभेदोऽस्तीत्यत्राह श्रुतज्ञाने त्विति । तुभिन्नार्थोपक्रमे, मतिज्ञानाभावे श्रुतज्ञानाभावाद्विशेषविषये तस्मिन्नवग्रहासम्भवेनेहादीनामप्यसम्भवादिति भावः ॥