________________
तत्त्वन्यायविभाकरे
तद्विज्ञानजननशक्तिरूपा वासना प्रोच्यते, कालान्तरे वासनावशादिन्द्रियैरुपलब्धस्य तैरनुपलब्धस्य वा मनसि या स्मृतिराविर्भवति स तृतीयभेदः, एवं स्मृतिहेतोरेव धारणात्ववर्णनमनुचितं तथाप्यविच्युतिरपाय एवान्तर्भूता, दीर्घदीर्घतरादिरूपापायस्यैवाविच्युतिरूपत्वात् तस्या अपि स्मृतिहेतुत्वात् स्मरणोत्पत्त्यनुकूलत्वे सत्यपायत्वेन धारणयैव-संस्कारवत् सहीतत्वाद्वा न दोषः । न ह्यविच्युत्यनात्मकादपायात्स्मरणं भवितुमर्हति, गच्छत्तृणस्पर्शप्रायाणामपायानां परिशीलनविकलानां स्मृतिजनकत्वादर्शनात् । स्मृतिरपि धारणैव परन्तु तस्याः परोक्षप्रमाणभेदत्वादिह न सङ्ग्रहीता । ननु अविच्युतिस्मृतिरूपौ ज्ञानविशेषौ गृहीतग्राहित्वान्न प्रमाणभूतौ, वासना तु किमात्मिका, न तावत्स्मृतिज्ञानावरणक्षयोपशमस्तज्ज्ञानजननशक्तिविशेषो वा सा, ज्ञानरूपत्वाभावाज्ज्ञानभेदानामेवेह विचार्यमाणत्वात् । संख्येयमसंख्येयं वा कालं वासनाया इष्टत्वेन तत्तद्वस्तु विकल्परूपापि सा न संभवत्येतावन्तं कालं तद्वस्तु विकल्पायोगादित्याशंकायामाहेयञ्चेति वासनात्मिका धारणा चेत्यर्थः । संख्येयवर्षायुषां संख्येयकालवर्तिनी, असंख्येयवर्षायुषामसंख्येयकालवर्तिनीत्यर्थः, ज्ञानरूपेति, तथा चैषा वासना स्मृतिविज्ञानावरणक्षयोपशमरूपा स्मृतिविज्ञानजननशक्तिविशेषरूपा वेष्यते, सा यद्यपि स्वयं ज्ञानरूपा न भवति तथापि पूर्वप्रवृत्ताविच्युतिरूपज्ञानकार्यत्वादुत्तरकालभाविस्मृतिरूपज्ञानकारणत्वाञ्चोपचारतो ज्ञानरूपताभ्युपगम्यत इति भावः । यच्चोक्तमविच्युतिस्मरणयोर्गृहीतग्राहित्वमिति तदपि स्पष्टस्पष्टतरस्पष्टतमरूपविभिन्नधर्मकवासनाजनकत्वेनाविच्युतेः पूर्वोत्तरदर्शनद्वयानधिगतवस्त्वेकत्वग्राहित्वाच्च स्मृतेविशेषग्राहित्वेन प्रमाणत्वमक्षतमेवेति । अथ प्रशङ्गतोऽवग्रहादीनां कालमानमुच्यतेऽवग्रहादयस्त्विति । आदिना ईहापायाविच्युतिस्मृतीनां ग्रहणमवग्रहपदेन व्यावहारिकावग्रहस्य ग्रहणम् । व्यञ्जनावग्रहस्य कालो जघन्यत आवलिकाया असंख्येयभागः प्रकर्षेण संख्येयावलिका आनपानपृथक्त्वकालमानाः । नैश्चयिकार्थावग्रहस्य समयो वासनायास्तु संख्येयोऽसंख्येयो वा काल इति मूल एवोक्तः ।
१. अपायस्य हि वस्तुनिश्चयः फलं तच्च प्रथमप्रवृत्तापायेनैव निष्पन्नमिति द्वितीयाद्यपायस्य निष्फलत्वं, निष्पन्नं फलं प्रति पुनर्निष्पादकत्वाभ्युपगमे निष्पन्नस्यापि घटस्य पुननिष्पादनाय कुलालप्रवृत्तिः स्यात् स्मृतिरपि पूर्वोत्तरकालभाविज्ञानद्वयगृहीत एव वंस्तुनि प्रवर्तते इति सापि गृहीतस्यैव ग्राहिका, पूर्वोत्तररूपकालभेदेन च वस्तुनो भेदाच्चैकत्वासिद्ध्या स्मृतेः तस्याप्यग्राहकत्वेनाविच्युतिस्मृत्योर्न प्रमाणत्वमिति भावः ॥ २. प्रथमापायेनान्यकालविशिष्टं द्वितीयापायेनेतरकालविशिष्ट वस्तु गृह्यत इति न गृहीतग्राहित्वं, स्मृत्यापि कालभेदेन भिन्नस्यापि सत्त्वप्रमेयत्वसंस्थानादिभिरेकत्वेन तद्विशिष्टं वस्तु गृह्यत इति न गृहीतग्राहित्वं तस्या इतिभावः ॥