________________
द्वितीयो भाग / सूत्र - २५, द्वितीय किरणे
८३
નૈઋયિક અવ્યક્ત વસ્તુ માત્ર ગ્રહણરૂપ અર્થાવગ્રહ પછી શું આ વસ્તુ ગ્રહણ કરાયેલી “શબ્દ છે કે અશબ્દ?' - આવો સંશય કરીને, “આ શબ્દ હોવો જોઈએ'-એ પ્રમાણે હોવું જોઈએ એવા જ્ઞાન-નિશ્ચય'ના અભિમુખી ઈહા પણ વિચારવી.
अपायं निरूपयति
ईहाविषयविशेषधर्मवत्तानिर्णयोऽपायः । यथाऽयं पाश्चात्य एवेति । अयमेव प्रत्यक्षप्रमाणमुच्यते, नत्ववग्रहेहे तयोरनिर्णयरूपत्वात् ॥ २५ ॥
ईति । ईहाविषयीभूतपाश्चात्यत्वादेर्धर्मस्य निर्णयो याथात्म्येन निश्चयः पाश्चात्य एवायमिति सोऽपाय इत्यर्थः । दृष्टान्तमाह यथेति पाश्चात्य एवेति, एव शब्देन पौरस्त्यत्वादिधर्मनिषेधः, अन्यतरवचने अन्यतरनिषेधस्य सामर्थ्यलब्धत्वात् । यदा तु नायं पौरस्त्य इति करोत्यपायं तदापि सामर्थ्यात्पाश्चात्य एवेति लभ्यते तदीयविशेषलिङ्गात् । नैश्चयिकापायस्तु शब्द एवायमित्येवंरूपः । ननु स्वस्वविषये सम्यगर्थनिर्णयात्मकत्वादवग्रहेहयोपरपायात्सर्वथाभिन्नत्वाभावाच्च प्रमाणात्मकत्वेऽपि उत्तरोत्तरापेक्षयाऽवग्रहस्य सामान्यमात्रविषयकत्वेन पर्यालोचनारूपत्वाच्चेहाया हेयोपादेयवस्तुतिरस्कारस्वीकारयोस्स्पष्टतया सामर्थ्यविरहात्तादृशस्य निश्चयात्मक स्यापायस्यैव तादृशं प्रमाणत्वमित्याशयेनाहायमेवेति अपाय एवेत्यर्थः । एवशब्दव्यवच्छेदमाह नत्विति, प्रमाणमुच्यत इत्यनेन सम्बन्धः, नात्र प्रमाणस्य सर्वथा निषेधो भाव्यः । अन्यथाऽपायस्यावग्रहादिपर्यायत्वेन तस्यापि प्रमाणत्वमनुपपन्नं स्यादत एव चावग्रहेहयोः सांव्यवहारिक प्रत्यक्षप्रमाणभेदत्वं किन्तु अवग्रहेहे व्यापारांशी, जिज्ञासानिवृत्त्यनन्तरकालीनापायस्तु फलांश इत्यस्य हेयहानोपादेयोपादानक्षमत्वादित्यभिप्रायेणैवास्य प्रमाणत्वमुक्तमिति ध्येयम् ॥ असद्भूतार्थविशेषव्यतिरेकावधारणमेव नापायः, क्वचित्तदन्यव्यतिरेकपरामर्शात् यथा नेह शिरःकण्डूयनादयः पुरुषधर्मा दृश्यन्तेऽतस्स्थाणुरेवायमिति, क्वचिदन्वयधर्मसमनुगमात्, यथा स्थाणुरेवायं वल्ल्युत्सर्पणपक्षिनिलयनादिधर्माणामिहान्वयादिति, क्वचिच्चोभाभ्यामपि, यथा पुरुषधर्माः शिरःकण्डूयनादयो न दृश्यन्ते, स्थाणुधर्माश्च वल्ल्युत्सर्पणादयो दृश्यन्तेऽतस्स्थाणुरेवायमिति भवतोऽपायस्य निश्चयैकरूपेण भेदाभावात् ॥
१. तत्र विद्यमानस्थाण्वादिभिन्नपुरुषवृत्तिशिरःकण्डूयनादि धर्मविशेषाणां पुरोवर्तिनि प्रतिषेधमात्रमेवापायो न तु सद्भूतार्थविशेषावधारणरूपोऽपि, तस्य धारणारूपत्वादिति पूर्वपक्षस्य भावः ॥ २. व्यतिरेकादन्वयादुभयस्माद्वा भूतार्थविशेषावधारणं कुर्वतो योऽध्यवसायस्स सर्वोऽप्यपायः, नतु सद्भूतार्थविशेषावधारणं धारणा, तथाऽभ्युपगम्यमाने आभिनिबोधिकज्ञानस्य पञ्चभेदत्वापत्तेः, व्यतिरेकस्यापायत्वेनान्वयस्य धारणात्वेनावग्रहेहापायधारणायाश्चतुर्विधत्वात् स्मृतेश्च पञ्चभेदत्वात् अविच्युतेरपाये वासनायास्स्मृतावन्तर्गतत्वात् । अस्मन्मते तु न तथा व्यतिरेकस्यान्वयस्यापि अपायत्वेन स्मृतेर्धारणान्तर्गतत्वादिति ॥